________________
दशम-एकादशव्रतातिचारस्वरूपम् - श्लो० ५६-६७॥]
[ २०३
प्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहः प्रयोजने उत्पन्ने विवक्षितक्षेत्राद्बहिर्व्रतभङ्गभयात् स्वयं गन्तुं बहिःस्थितं चाह्वातुमशक्नुवन् वृति-प्राकारादिप्रत्यासन्नवर्त्तीभूय कासितादिशब्दम् आह्वानीयानां श्रोत्रोऽनुपातयति, ते च तच्छ्रवणात् तत्समीपमागच्छन्तीति शब्दानुपातननामाऽतिचारस्तृतीयः ३।
एवं रूपानुपातनम्, यथा रूपं - शरीरसम्बन्धि उत्पन्नप्रयोजनः शब्दमनुच्चारयन्नाह्वानीयानां दृष्टावनुपातयति, तद्दर्शनाच्च तत्समीपमागच्छन्तीति रूपानुपातनाख्योऽतिचारश्चतुर्थः ४।
तथा पुद्गलाः –परमाणवस्तत्सङ्घातसमुद्भवा बादरपरिणामं प्राप्ता लोष्टादयोऽपि तेषां प्रेरणं –क्षेपणम् विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परगृहगमननिषेधाद्यदा लोष्टकान् परेषां बोधनाय क्षिपति, तदा लोष्टातिपातसमनन्तरमेव ते तत्समीपमनुधावन्ति, ततश्च तान् व्यापारयतः स्वयमगच्छतोऽप्यतिचारो भवतीति पञ्चमः ५ ।
इह चाद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा अन्त्यत्रयं तु मायापरतयाऽतिचारतां यातीतिविवेकः ।
ईहाहुर्बुद्धाः –दिग्व्रतसङ्क्षेपकरणमणुव्रतादिसङ्क्षेपकरणस्याप्युपलक्षणं द्रष्टव्यम्, तेषामपि सङ्क्षेपस्यावश्यङ्कर्त्तव्यत्वात् । अत्राह - ननु अतिचाराश्च दिग्व्रतसङ्क्षेपकरणस्यैव श्रूयन्ते, न व्रतान्तरसङ्क्षेपकरणस्य, तत्कथं व्रतान्तरसङ्क्षेपकरणं देशावकाशिकव्रतमिति ? अत्रोच्यते –प्राणातिपातादिव्रतान्तरसङ्क्षेपकरणेषु वधबन्धादय एवातिचाराः, दिग्व्रतसङ्क्षेपकरणे तु सङ्क्षिप्तत्वात् क्षेत्रस्य प्रेष्यप्रयोगादयोऽतिचाराः, भिन्नातिचारसम्भवाच्च दिग्व्रतसङ्क्षेपकरणस्यैव देशावकाशिकत्वं साक्षादुक्तम् ॥५६॥
इत्युक्त्वा देशावकाशिकव्रतातिचाराः । अथ पोषधोपवासव्रतस्य तानाह –
संस्तारादानहानान्यप्रत्युपेक्ष्याप्रमृज्य च ।
अनादरोऽस्मृतिश्चेत्यतिचाराः पोषधव्रते ॥५७॥
१. L.P. तदा लोष्टाति-मु० C. नास्ति । तदा लोष्टादि - इति योगशास्त्रवृत्तौ प० ५६० । तदा लोष्ट्वादि-इति प्रवचनसारोद्धारवृत्तौ प० २१२ । २. तुला - धर्मबिन्दुवृत्तिः प० ४४, पञ्चाशकवृत्तिः प० २५, योगशास्त्रवृत्ति: प० ५६१, प्रवनचसारोद्धारवृत्तिः प० २१२ ॥ ३. प्रवचनसारोद्धारे तु
"अप्पडिलेहिय अप्पमज्जियं च सेज्जाइ थंडिलाणि तहा ।
संमं च अणणुपालणमइयारा पोसहे पंच" ॥ २८५ ॥ इति प्रकारान्तरेण अतिचारा दृश्यन्ते ॥
D:\new/d-1.pm5\3rd proof