________________
२०२]
आसन्नसिद्धिआणं, विहिपरिणामो उ होइ सयकालं ।
१
विहिचाओ अविहिभत्ती, अभव्वजियदूरभव्वाणं" ॥३॥ [ सं.प्र.देवा./१९३ ] ति । कृषि-वाणिज्यसेवादि भोजन - शयना - ऽऽसन - गमन-वचनाद्यपि द्रव्यक्षेत्रकालादिविधिना पूर्णफलवन्नान्यथा । अत एव संकलपुण्यक्रियाप्रान्तेऽविध्याशातनानिमित्तं मिथ्यादुष्कृतं दातव्यमेवेत्यलं प्रसङ्गेन ॥५५॥
अधुना देशावकाशिकव्रतातिचारानाह
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
प्रेषणा-ऽऽनयने शब्द-रूपयोरनुपातने ।
पुद्गलप्रेरणं चेति, मता देशावकाशिके ॥५६॥
प्रेषणं चानयनं चेति प्रेषणा -ऽऽनयने, शब्दश्च रूपं चैतयोरनुपातने अवतारणे, शब्दानुपातो रूपानुपातश्चेत्यर्थः, पुद्गलप्रेरणं चेति पञ्चातिचारा 'देशावकाशिके' देशावकाशिकनाम्नि व्रते मताः ।
अयं भावः –दिग्व्रतविशेष एव देशावकाशिकव्रतम्, इयाँस्तु विशेषो –दिग्व्रतं यावज्जीवं संवत्सरचतुर्मासीपरिमाणं वा, देशावकाशिकं तु दिवस-प्रहर- मुहूर्त्तादिपरिमाणम्, तस्य च पञ्चातिचारास्तद्यथा
—
प्रेषणं-भृत्यादेर्विवक्षितक्षेत्राद्बहिः प्रयोजनाय व्यापारणम्, स्वयं गमने हि व्रतभङ्गः स्यादिति अन्यस्य प्रेषणम्, देशावकाशिकवतं हि मा भूद् गमनाऽऽगमनादिव्यापारजनितप्राण्युपमर्द इत्यभिप्रायेण गृह्यते, स तु स्वयं कृतोऽन्येन कारित इति न कश्चित् फले विशेषः, प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुणः परस्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति प्रथमोऽतिचारः १ |
D:\new/d-1.pm5\3rd proof
आनयनं –विवक्षितक्षेत्राद्बहिः स्थितस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रे प्रापणं सामर्थ्यात् प्रेष्येण, स्वयं गमने हि व्रतभङ्गः स्यात्, परेण त्वानयने न भङ्ग इति बुद्धया यदाऽऽनाययति सचेतनादि द्रव्यं तदाऽतिचार इति द्वितीयः २ ।
शब्दस्य-क्षुत्कासितादेरनुपातनं - श्रोत्रेऽवतारणं शब्दानुपातनं, यथा विहितस्वगृहवृत्ति
१. इति-मु० ॥ २. सकलक्रियापुण्य मु० C. ॥। ३. L.P. । ज्ञेया- मु० C. ।। ४. तुला- योगशास्त्रवृत्तिः ३।११६, प० ५५९, प्रवचनसारोद्धारवृत्तिः प० २१० ।। ५. तुला - धर्मबिन्दुवृत्तिः प० ४४, पञ्चाशकवृत्तिः प० २४-५, नवपदप्रकरणबृहद्वृत्तिः प० २६९ ।। ६. L.P. C. । हि-मु० नास्ति । ७. न (वा) कारितमु० । L.P.C. योगशास्त्रवृत्तावपि वा नास्ति ॥