________________
नवमव्रतातिचारस्वरूपम्-श्लो० ५५॥]
[२०१ एवोक्तः, अतिचारश्च मालिन्यरूप एव भवतीति कथं सामायिकाभावेऽयं भवेत् ? अतो भङ्गा एवैते नातिचारा इति, उच्यते -अनाभोगतोऽतिचारत्वम् । ___ ननु द्विविधं त्रिविधेनेति सावधप्रत्याख्यानं सामायिकम् , तत्र च कायदुष्प्रणिधानादौ प्रत्याख्यानभङ्गात् सामायिकाभाव एव, तद्भङ्गजनिते(तं) च प्रायश्चित्तं विधेयं स्यात् , मनोदुष्प्रणिधानं चाशक्यपरिहारम् , मनसोऽनवस्थितत्वात् । अतः सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसी । यदाहुः -"अविधिकृताद् वरमकृतम्"[ ] इति । नैवम् , यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नम् , तत्र च मनसा वाचा कायेन च सावद्यं न करोमि न कारयामीति षट् प्रत्याख्यानानीत्येकतरप्रत्याख्यानभङ्गेऽपि शेषसद्भावान्मिथ्यादुष्कृतेन मनोदुष्प्रणिधानमात्रशुद्धेश्च न सामायिकात्यन्ताभावः । सर्वविरतिसामायिकेऽपि तथाऽभ्युपगतम् , यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम् । यदाह -
"बीओ उ असमिओ मि त्ति कीस सहसा अगुत्तो वा"।[ ] इति । द्वितीयोऽतिचार: समित्यादिभङ्गरूपोऽनुतापेन शुध्यतीत्यर्थः, इति 'न प्रतिपत्तेरप्रतिपत्तिर्गरीयसी' इति । किञ्च -सातिचारादप्यनुष्ठानादभ्यासत: कालेन निरतिचारमनुष्ठानं भवतीति सूरयः । यदाह -
"अभ्यासोऽपि प्रायः, प्रभूतजन्मानुगो भवति शुद्धः"[ षोड./२०५पू.] इति ।
बाह्या अपि -"अभ्यासो हि कर्मणां कौशलमावहति, न हि सकृन्निपातमात्रेणोदबिन्दुरपि ग्राव्णि निम्नतामादधाति"।[]
न चाविधिकृताद् वरमकृतमिति युक्तम् , असूयावचनत्वादस्य । यदाहुः - "अविहिकया वरमकयं, उस्सुअ( असूय )वयणं भणंति समयण्णू । पायच्छित्तं जम्हा, अकए गुरु कए लहुअं" ॥१॥[वि.सा./८९६] तस्माद्धर्मानुष्ठानं निरन्तरं कार्यमेव, किन्तु तत्कुर्वता सर्वशक्त्या विधौ यतनीयम् , इदमेव च श्रद्धालोर्लक्षणम् । आहुश्च - "विहिसारं चिय सेवइ, सद्धालू सत्तिमं अणुट्ठाणं । दव्वाइदोसनिहओ वि, पक्खवायं वहइ तंमि" ॥१॥[ध.र.प्र.गा./९१] धण्णाणं विहिजोगो, विहिपक्खाराहगा सया धण्णा । विहिबहुमाणी धण्णा, विहिपक्खअदूसगा धण्णा ॥२॥[सं.प्र. सुगुरु./३४०]
१. तद्भङ्गजनिते-L.P.C. । तद्भङ्गजनितं-इति योगशास्त्रवृत्तौ प० ५५८ ॥ २. स्थितत्वाच्च-मु० C. I L.P. योगशास्त्रवृत्तावपि प०५५८ ॥ ३. उस्सुअवयणं-L.P.C. | असूयवयणं-इति योगशास्त्रवृत्ती प०५५८॥
D:\new/d-1.pm5\3rd proof