SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २००] [धर्मसंग्रहः-द्वितीयोऽधिकार: योगदुष्प्रणिधानादयः प्रक्रमात् पञ्चातिचारा: सामायिकव्रते जिनैः प्रोक्ताः' इत्यन्वयः । तत्र योगाः -कायवाङ्मनांसि, तेषां दुर्दुष्टानि प्रणिधानानि प्रणिधयः दुष्प्रणिधानानि । सावद्ये प्रवर्त्तनालक्षणानीत्यर्थः । तत्रापि शरीरावयवानां पाणि-पादादीनामनिभृततावस्थापनं कायदुष्प्रणिधानम् , वर्णसंस्काराभावोऽर्थानवगमश्चापलं च वाग्दुष्प्रणिधानम् , क्रोध-लोभद्रोह-ऽभिमानेादयः कार्यव्यासङ्गसम्भ्रमश्च मनोदुष्प्रणिधानम् , एते त्रयोऽतिचाराः । यदाहुः"अणविक्खिआपमज्जिअ, थंडिल्ले ठाणमाइ सेवंतो। हिंसाऽभावे वि न सो, कडसामइओ पमायाओ॥२॥ श्रा.प्र./३१५] कडसामइओ पुट्विं, बुद्धीए पेहिऊण भासेज्जा। सइ निरवज्जं वयणं, अण्णह सामाइअंन हवे ॥२॥[ श्रा.प्र./३१४] सामाइअंतु काउं, घरचितं जो अचिंतए सड्ढो । अट्टवसट्टोवगओ, निरत्थयं तस्स सामइअं" ॥३॥[ श्रा.प्र./३१३, सं.प्र.७/१०९] तथास्मृतेः -सामायिककरणावसरविषयायाः कृतस्य वा सामायिकस्य प्रबलप्रमादयोगादनवता(धा)रणम् –अनुपस्थापनम् । एतदुक्तं भवति –'मया कदा सामायिकं कर्त्तव्यम् ?' 'कृतं वा मया सामायिकं न वा' इति एवंरूपस्मरणभ्रंशोऽतिचारः, स्मृतिमूलत्वान्मोक्षानुष्ठानस्य । यदाहुः - "न सरह पमायजुत्तो, जो सामइअंकया य कायव्वं?। कयमकयं वा तस्स हु , कयं पि विहलं तयं नेयं" ॥१॥[श्रा.प्र./३१६, सं.प्र.७/११०] ति चतुर्थः ४। __ तथाऽनादर: -अनुत्साह: प्रतिनियतवेलायां सामायिकस्याकरणम् , यथाकथञ्चिद्वा करणम् , करणानन्तरमेव पारणं च । यदाहुः - "काऊण तक्खणं चिअ, पारेइ करेइ वा जहिच्छाए। अणवट्ठिअसामइअं,अणायराओ नतंसुद्ध" ॥१॥[ श्रा.प्र./३१७] ति। पञ्चमोऽतिचारः ५। अत्राह -कायदुष्प्रणिधानादौ सामायिकस्य निरर्थकत्वादिप्रतिपादनेन वस्तुनोऽभाव १. तुला-योगशास्त्रवृत्तिः ३।११५, प० ५५६, प्रवचनसारोद्धारवृत्तिः प० २०९॥२. अनिरिक्खिया' इति योगशास्त्रवृत्तौ प० ५५६, प्रवचनसारोद्धारवृत्तौ प० २०९ । गाथात्रयमुद्धृतम्-पञ्चाशकवृत्तौ प० २३, नवपदप्रकरणबृहद्वृत्तौ प० २६२ ।। ३. गिहकज्ज-इति सम्बोधप्रकरणे ॥ ४. करणं-मु० नास्ति । योगशास्त्र [प०५५७] प्रवचनसारोद्धार [प० २१०] वृत्त्योरपि-करणम् अस्ति ।। ५. तुला-धर्मबिन्दुवृत्तिः प० ४३, पञ्चाशकवृत्तिः प० २४, योगशास्त्रवृत्तिः प० ५५७-८ ॥ D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy