________________
१५ कर्मादानस्वरूपम्-श्लो० ५२-५३॥]
[१९७ "सरःशोषः सरःसिन्धु-हृदादेरम्बुसम्प्लवः" ॥ [ यो.शा.३/११३उत्त.]
तत्राऽखातं सरः, खातं तु तडागमित्यनयोर्भेदः । इह हि जलस्य तद्गतानां त्रसानां तत्प्लावितानां च षण्णां जीवनकायानां वध इति दोषः १४।
असत्यो -दुःशीलास्तासां पोषणम् , लिङ्गमतन्त्रम् , शुकादीनां पुंसामपि पोषणमसतीपोषः, शुक-सारिका-मयूर-मार्जार-मर्कट-कुर्कुट-कुर्कुर-शूकरादितिरश्चां पोषणम् । तथा भाटीग्रहणार्थं दास्याः पोषः, गोल्लदेशे प्रसिद्धोऽयं व्यवहारः, एषां च दुःशीलानां पोषणं पापहेतुरेवेति दोषः १५। इति पञ्चदशसङ्ख्यानि प्रस्तावात् कर्मादानानि अतिचाररूपत्वात् 'त्यजेत्' जह्यात् , श्रावक इति शेषः । इत्युक्तानि पञ्चदश कर्मादानानि । दिग्मानं चेदमेवञ्जातीयानां बहूनां सावद्यकर्मणाम् , न पुनः परिगणनमिति, इह चैवं विंशतिसङ्ख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसङ्ख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनां सङ्ग्रह इति ज्ञापनार्थम् । तेन स्मृत्यन्त नादयो यथासम्भवं सर्वव्रतेष्वतिचारा द्रष्टव्याः । अत एव चात्र व्रते रात्रिभोजनमद्यादिनिवृत्तिष्वप्यतिचाराः पूर्वं भाविताः । तथा चोक्तमुपासकदशाङ्गवृत्तौ “य एते प्रतिव्रतं पञ्च पञ्चातिचारास्ते उपलक्षणमतिचारान्तराणामवसेयम् , न त्ववधारणम्" । यदाहुः पूज्याः - "पञ्चपञ्चातिचारा उ, सुत्तमि जे पदंसिआ।
ते नावहारणट्ठाए, किन्तु ते उवलक्खणं" ॥१॥ [ उपा.अ.१/सू.७ प.६ A] ति ।
इदं चेह तत्त्वम् –यत्र व्रतविषयेऽनाभोगादिनाऽतिक्रमादिपदत्रयेण वा स्वबुद्धिकल्पनया वा व्रतसापेक्षतया व्रतविषयं परिहरतः [या] प्रवृत्तिः साऽतिचारः, विपरीततायां तु भङ्गः । इत्येवं सङ्कीर्णातिचारपदगमनिका कार्येति ।
"नन्वङ्गारकर्मादयः कथं खरकर्मण्यतिचाराः ? खरकर्मरूपा ह्येते । सत्यम् , खरकर्मरूपा एवैते । किन्त्वनाभोगादिना क्रियमाणाः खरकर्मवर्जनव्रतवतामतिचाराः स्युः । उपेत्य क्रियमाणास्तु भङ्गा एवेति" [ तुला-पञ्चाशकटीका १/२२, प० २१ A । योगशास्त्रटीका ३/११३ प० ५५३] पञ्चाशकयोगशास्त्रवृत्त्योः ॥५३॥
१. तुला-प्रवचनसारोद्धारवृत्तिः प० १६८ ॥ २. तुला-योगशास्त्रवृत्तिः प० ५५३ ॥ ३. तुलाधर्मबिन्दुवृत्तिः प० ४२, पञ्चाशकवृत्तिः प०२०-१ ॥ ४. 'नां अपरेषां संग्रह-इति धर्मबिन्दुवृत्तौ प० ४२ ॥ ५. परिहरतः प्रवृत्तिः-L.P.C. || ६. दृश्यतां पञ्चाशकवृत्तौ १/२२, प० २१ A योगशास्त्रवृत्तिः ३।११३, प० ५५३ ॥
D:\new/d-1.pm5\3rd proof