SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १९८] [धर्मसंग्रहः-द्वितीयोऽधिकारः इत्युक्ता भोगोपभोगव्रतातिचाराः, अथानर्थदण्डविरमणव्रतस्य तानाह - प्रोक्तास्तृतीये कन्दर्पः, कौत्कुच्यं भोगभूरिता । संयुक्ताधिकरणत्वं, मौखर्यं च गुणव्रते ॥५४॥ कन्दर्पः कौत्कुच्यं भोगभूरिता संयुक्ताधिकरणत्वं मौखर्यं चेति पञ्चातिचाराः 'तृतीये गुणव्रते' अनर्थदण्डविरतिरूपे प्रोक्ताः जिनैरिति शेषः । तत्र 'कन्दर्प:' कामस्तद्धेतुस्तत्प्रधानो वा वाक्प्रयोगोऽपि कन्दर्पः । मोहोद्दीपकं वाक्कर्मेति भावः । इह चेयं सामाचारी-श्रावकेण न तादृशं वक्तव्यं येन स्वस्य परस्य वा मोहोद्रेको भवति । अट्टहासोऽपि न कल्पते कर्तुम् , यदि नाम हसितव्यं तदेषदेवेति प्रथमः १। कुत्-कुत्सायां निपातः, निपातानामानन्त्यात् । कुत् कुत्सितं कुचति कुच-भ्रू-नयनौष्ठनासा-कर-चरण-मुखविकारैः सङ्कुचतीति कुत्कुचस्तस्य भावः कौत्कुच्यम् - अनेकप्रकारा भण्डादिविडम्बनक्रियेत्यर्थः । अथवा कौकुच्यमिति पाठः, तत्र कुत्सितः कुचः सङ्कोचादिक्रियाभाक् तद्भावः कौकुच्यं, अत्र च श्रावकस्य न तादृशं वक्तुं चेष्टितुं वा कल्पते, येन परे हसन्ति, आत्मनश्च लाघवं भवति, प्रमादात् तथाऽऽचरणे चातिचार इति द्वितीयः २। एतौ द्वावपि प्रमादाचरितव्रतस्यातिचारी, प्रमादरूपत्वादेतयोः । तथा भोगस्य उपलक्षणत्वादुपभोगस्य च-उक्तनिर्वचनस्य स्नान-पान-भोजनचन्दन-कुङ्कम-कस्तूरिका-वस्त्राऽऽभरणादे रिता-स्वस्वीयकुटुम्बव्यापारणापेक्षयाऽधिकत्वम् , अयमपि प्रमादाचरितस्यातिचारः, विषयात्मकत्वादस्याः । __इहापीयं सामाचारी आवश्यकचूाद्युक्ता –यदि उपभोगानि तैला-ऽऽमलकादीनि बहूनि गृह्णाति, तदा तल्लौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकादिवधोऽधिक: स्यात् , स्यादेवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, तत्र को विधिरुप १. तुला-योगशास्त्रवृत्तिः ३।११४, प्रवचनसारोद्धारवृत्तिः प० २०६-८ ॥ २. कुचते-C. || ३. नयनोष्ठ इति योगशास्त्रवृत्तौ प० ५५५ प्रवचनसारोद्धारवृत्तौ प० २०६ ॥ ४. कुचः कुकुचः सङ्कोचा' इति । प्रवचनसारोद्धारवृत्तौ प० २०७ ॥ ५. कौत्कुच्य-मु० । P.C. प्रवचनसारोद्धारयोगशास्त्रवृत्त्योरपि कौकुच्यम्-इति ।। ६. तुला-आवश्यकहारिभद्रीयवृत्तिः प० ८३० B ।। ७. तुलाआवश्यकहारिभद्रीयवृत्तिः प० ८३१ A ।। D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy