SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १९६] [धर्मसंग्रहः-द्वितीयोऽधिकारः "तिलेक्ष सर्षपैरण्ड-जलयन्त्रादिपीडनम् । दलतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्तिता" ॥१॥ [ यो.शा.३/११०] अत्र यन्त्रशब्दः प्रत्येकं सम्बध्यते, तत्र तिलयन्त्रं तिलपीडनोपकरणम् , इक्षुयन्त्रं कोल्हुकादि, सर्षपैरण्डयन्त्रे तत्पीडनोपकरणे, जलयन्त्रमरघट्टादि, दलतिलं यत्र दलं तिलादि दीयते तैलं च प्रतिगृह्यते तद् दलतैलम् , तस्य कृतिविधानम् , अत्र दोषस्तु तिलादिक्षोदात् तद्गतत्रसजीववधाच्च । लोकिका अप्याहुः - "*दशशूनासमं चक्रम् [ मनुस्मृति ४/८५] इति" ११। नितरां लाञ्छनम् -अङ्गावयवच्छेदस्तेन कर्म-जीविका निर्लाञ्छनकर्म-गवादिकर्णकम्बल-शृङ्ग-पुच्छच्छेद-नासावेधा-ऽङ्कन-षण्डन-त्वग्दाहादि-उष्ट्रपृष्ठगालनादि च। यतः"नासावेधोऽङ्कन पुच्छ मुष्क )च्छेदनं पृष्ठगालनम् । गोकर्णकम्बलच्छेदो, निर्लाञ्छनमुदीरितम्" ॥१॥ [यो.शा.३/१११] तत्राङ्कनं-गवा-ऽश्वादीनां-चिह्नकरणम् , मुष्कः -अण्डस्तस्य छेदनं-वद्धितकीकरणम् , अस्मिन् जीवबाधा व्यक्तैव १२। देवस्य-दवाग्नेर्दानं-वितरणं दवदानम् , गहनदाहे सति भिल्लादयः सुखेन चरन्ति, जीर्णतृणदाहे वा नवतृणाङ्करोद्रेदाद् गवादयश्चरन्ति, यद्वा दग्धे क्षेत्रे सस्यसम्पत्तिवृद्धिः स्यादित्यादिबुद्ध्या कौतुकाद्वा, यद्वा मम श्रेयोऽर्थं मरणकाले इयन्तो धर्मदीपोत्सवाः करणीया इति पुण्यबुद्ध्याऽरण्येऽग्निप्रज्वालनं । यतः - "व्यसनात् पुण्यबुद्ध्या वा, दवदानं भवेत् द्विधा" । [यो.शा.३/११३पू.] इति । तत्र व्यसनात् –फलनिरपेक्षतात्पर्यात् , तथा च वनेचरा एवमेवाग्नि ज्वालयन्ति, पुण्यबुद्ध्या वा -तच्चोक्तरीत्याऽवसेयम् , अत्र च दोषो जीवकोटीनां वधरूपः स्पष्ट एव १३ सरस: शोषः सर:शोषः -धान्यादिवपनार्थं सारणीकर्षणम् , सरोग्रहणं जलाशयान्तराणामुपलक्षणम् । तेन सिन्धुद्रह-तडागादिपरिग्रहः । यतः - १. तुला-योगशास्त्रवृत्तिः ॥ २. तत्पीलनो” इति योगशास्त्रवृत्तौ ॥ ३. दलतैलं-इति योगशास्त्रवृत्तौ प० ५२० ॥ ४. पुच्छच्छेदनं-L.P.C. | मुष्कच्छेदनं-इति योगशास्त्रे ।। ५. कर्णकम्बलविच्छेदो-इति योगशास्त्रे ॥ ६. तुला-योगशास्त्रवृत्तिः प० ५५२, प्रवचनसारोद्धारवृत्तिः प० १६६-७ ॥ "*दशसूनासमं चक्रं दशचक्रसमोध्वजः । दशध्वजसमो वेशो दशवेशसमो नपः" ॥ इति पूर्णः श्लोकः ॥ D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy