________________
१५ कर्मादानस्वरूपम्-श्लो० ५२-५३॥]
[१९५ पृथिवीत्वादिना पटवासस्य त्रसाकुलत्वात् , टङ्कणक्षार-साबूक्षारादेर्बाह्यजीवविनाशनिमित्तत्वाच्च महानेव दोषः ७।
रसवणिज्या-मधु-मद्य-मांस-म्रक्षण-वसा-मज्जा-दुग्ध-दधि-घृत-तैलादिविक्रयः । दोषास्तु नवनीते जन्तुमूर्छनम् , वसा-क्षौद्रयोर्जन्तुघातोद्भवत्वम् , मद्यस्योन्मादजननत्वम् , तद्गतकृमिविघातश्च, दुग्धादौ सम्पातिमजन्तुविराधना, दिनद्वयातीते दधिन जन्तुसम्मुर्छनाऽपि ८।
केशशब्द: केशवदुपलक्षकः, ततो दासादिनृणां गवाश्वादितिरश्चां च केशवतां विक्रयः केशवणिज्या । यतः -
"नवनीत-वसा-क्षौद्र-मद्यप्रभृतिविक्रयः । द्विपाच्चतुष्पाद्विक्रयो वाणिज्यं रसकेशयोः ॥१॥ [ यो.शा.३/१०८ ]
अजीवानां तु केशादिजीवाङ्गानां विक्रयो दन्तवाणिज्यमिति विवेकः । द्विपाच्चतुष्पाद्विक्रये तु तेषां पारवश्यं वध-बन्धादयः क्षुत्पिपासा पीडा चेति दोषाः ९। __विषं-शृङ्गादि, तच्चोपलक्षणं जीवघातहेतूनामस्त्रादीनाम् । ततो विष-शस्त्र-कुशीकुद्दालादि-लोहहलादिविक्रयो विषवणिज्या । अस्मिश्च शृङ्गक-वत्सनागादेर्हरितालसोमलक्षारादेश्च विषस्य, शस्त्रादीनां च जीवितघ्नत्वं प्रतीतमेव । दृश्यन्ते च जलार्द्रहरितालेन सहसैव विपद्यमाना मक्षिकादयः, सोमलक्षारादिना तु भक्षितेन बालादयोऽपि। विषादिवाणिज्यं च परेऽपि निषेधयन्ति । यतः -
"कन्याविक्रयिणश्चैव, रसविक्रयिणस्तथा । विषविक्रयिणश्चैव, नरा नरकगामिनः" ॥१॥[ ] इति । अरघट्टादियन्त्रविक्रयोऽपि योगशास्त्रे विषवाणिज्यतयोक्तो । यतः - "विषा-ऽस्त्र-हल-यन्त्रा-ऽयो-हरितालादिवस्तुनः । विक्रयो जीवितघ्नस्य, विषवाणिज्यमुच्यते" ॥१॥ [यो.शा.३/१०९] इति । ग्रन्थान्तरे तु यन्त्रपीडनकर्मण्येवेति १०।
'यन्त्रपीडनकर्म' शिलोदूखल-मुशल-घरट्टा-ऽरघट्ट-कङ्कतादिविक्रयस्तिलेक्षुसर्षपैरण्डफलातस्यादिपीडनदलतैलविधान-जलयन्त्रवाहनादि वा । यतः -
१. C. । वा वाणिज्यं-मु० ॥ २. तुला-योगशास्त्रटीका प० ५४९ ॥ ३. शृङ्गिकादि-इति योगशास्त्रवृत्तौ प० ५५० ॥
D:\new/d-1.pm53rd proof