________________
१५ कर्मादानस्वरूपम्-श्लो० ५२-५३॥]
[१९३ ____ कर्मशब्दः प्रत्येकं सम्बध्यते, अङ्गारकर्म, विपिनकर्म, अनःकर्म, भाटीकर्म, स्फोटकर्मेति, तैर्वृत्तयः -आजीविका अङ्गारकर्मादिवृत्तयः । तत्र कर्म-क्रिया करणमितियावत् , ततः काष्ठदाहेनाङ्गारनिष्पादनं अङ्गारकर्म तेनाजीविका -तद्विक्रयादिरूपा। तत्करणे हि षण्णां जीवनिकायानां विराधनासम्भवः । एवं ये येऽग्निविराधनारूपा आरम्भास्ते तेऽङ्गारकर्मण्यन्तर्भवन्ति । ते च भ्राष्ट्रकरणेष्टिकादिपाक-कुम्भकाराऽयस्कार-स्वर्णकारकृत्यादयः । एते हि अङ्गारकर्मरूपास्तैर्जीवनमङ्गारकर्मवृत्तिरेवमग्रेऽपि भाव्यम् । यतो योगशास्त्रे
"अङ्गारभ्राष्ट्रकरणं, कुम्भायः-स्वर्णकारिता ।
ठठारत्वेष्टिकापाकाविति ह्यङ्गारजीविका" ॥१॥ [यो.शा.३/१०१] तत्र ठठारत्वं-शुल्व-नाग-वङ्ग-कांस्य-पित्तलादीनां करण-घटनादिना जीविका १।
तथा 'विपिनं' वनं, तत्कर्म -छिन्ना-ऽच्छिन्न-वन-पत्र-पुष्प-फल-कन्दमूल-तृणकाष्ठ-कम्बा-वंशादिविक्रयः कणदलपेषणं वनकच्छादिकरणं च । यतः -
“छिन्नाच्छिन्नवनपत्रप्रसूनफलविक्रयः ।
कणानां दलनोत्पेषाद् वृत्तिश्च वनजीविका" ॥१॥[यो.शा.३/१०२] इति । अस्यां च वनस्पतेस्तदाश्रितत्रसादेश्च घातसम्भव इति दोषः २। 'अनः' शकटं तत्कर्म च शकटशकटाङ्गघटन-खेटन-विक्रयादि । यदाह - "शकटानां तदङ्गानां, घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता" ॥१॥ [ यो.शा.३/१०३] तत्र शंकटानामिति चतुष्पदवाह्यानां वाहनानाम् तदङ्गानां चक्रादीनाम् , घटनं स्वयं परेण वा निष्पादनम् , खेटनं वाहनं च शकटानामेव सम्भवति, स्वयं परेण वा, विक्रयश्च शकटादीनां तदङ्गानांच, इदं कर्मापि सकलभूतोपमर्दजननम् , गवादीनां च वधबन्धादिहेतुः ३।
'भाटीकर्म' शकट-वृषभ-करभ-महिष-खर-वेसरा-ऽश्वादेर्भाटकनिमित्तं भारवाहनम् । यतः - "शकटोक्ष-लुलायोष्ट्र-खरा-ऽश्वतर-वाजिनाम् ।
भारस्य वाहनाद् वृत्तिर्भवेद्भाटकजीविका" ॥१॥[यो.शा.३/१०४] अत्रापि शकटकर्मोक्तो यो दोषः स सम्भवत्येव ।।
१. तुला-योगशास्त्रवृत्तिः ३।१०१, प० ५४५ ॥ २. तुला-योगशास्त्रवृत्तिः ३।१०१ ॥ ३. तुलायोगशास्त्रवृत्तौ प० ५४६ ॥ ४. वाहनं तच्च शक' इति योगशास्त्रवृत्तौ प० ५४६ ॥
D:\new/d-1.pm5\3rd proof