SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ [ धर्मसंग्रहः- द्वितीयोऽधिकारः यथाऽऽद्यद्वयस्योत्तरद्वयस्य च सचित्तत्वे समानेऽप्यनोषध्योषधिकृतो विशेषः । एवमस्य सचेतनौषधित्वाभ्यां समानत्वेऽप्यतुच्छतुच्छत्वकृतो विशेषो दृश्यः । तत्र च कोमलमुद्गादिफलीर्विशिष्टतृप्त्यकारकत्वेन तुच्छाः सचित्ता एवानाभोगादिना भुञ्जानस्य तुच्छौषधिभक्षणमतिचारः । अथवाऽत्यन्तावद्यभीरुतयाऽचित्ताहारताऽभ्युपगता, यत्तृप्तिकारकं तदचित्तीकृत्यापि भक्षयतु, सचेतनस्यैव वर्जनीयत्वाभ्युपगमात्, यत्पुनस्तृप्तिजननासमर्था अप्योषधीर्णौल्येनाचित्तीकृत्य भुङ्क्ते तत्तुच्छौषधिभक्षणमतिचारः, तत्र भावतो विरतेर्विराधितत्वाद् द्रव्यतस्तु पालितत्वादिति " [ पञ्चा० १/२२, प० २० ] पञ्चाशकवृत्तौ ॥५०॥ १९२] अथ भोगोपभोगातिचारानुपसंहरन् भोगोपभोगव्रतस्य लक्षणान्तरं तद्गतांश्चातिचारानुपदर्शयितुमाह - अमी भोजनमाश्रित्य त्यक्तव्याः कर्मतः पुनः । खरकर्मत्रिघ्नपञ्चकर्मादानानि तन्मलाः ॥५१॥ 'अमी' उक्तस्वरूपाः पञ्चातिचारा 'भोजनमाश्रित्य ' ' त्यक्तव्या' हेयाः । अथ कर्मतस्तानाह –तत्र भोगोपभोगसाधनं यद् द्रव्यं तदुपार्जनाय यत्कर्म - व्यापारस्तदपि भोगोपभोगशब्देनोच्यते, 'कारणे कार्योपचारात्' इति, व्याख्यानान्तरं पूर्वमुक्तमेव । ततश्च ‘कर्मतः’ कर्माश्रित्य भोगोपभोगोत्पादकव्यापारमाश्रित्येर्थः, 'पुनः “खरं' कठोरं यत् 'कर्म' कोट्टपालन-गुप्तिपालनादिरूपं तत्त्याज्यम् । ‘तन्मलाः ' तस्मिन् खरकर्मत्यागलक्षणे भोगोपोभोगव्रते मलाः - अतिचाराः त्रिघ्नाः - त्रिगुणिताः पञ्च पञ्चदशेत्यर्थः । कर्मादानानि - कर्मादानशब्दवाच्या भवन्तीतिशेषः, कर्मणां पापप्रकृतीनामादानानि कारणानीतिकृत्वा तेऽपि त्यक्तव्या इति पूर्वक्रियान्वयः ॥५१॥ अथ तान्येव नामतः श्लोकद्वयेनाह - वृत्तयोऽङ्गार-विपिना-नो- भाटी - स्फोटकर्मभिः । वणिज्याका दन्त- लाक्षा - रस- केश - विषाश्रिताः ॥५२॥ यन्त्रपीडनकं निर्लाञ्छनं दानं दवस्य च । सरःशोषोऽसतीपोषश्चेति पञ्चदश त्यजेत् ॥५३॥ युग्मम् ॥ १. °तुच्छत्वतुच्छत्व' इति पञ्चाशक [प० २० ]प्रवचनसारोद्धार [ प० २. पञ्चाशकवृत्तौ प्रवचनसारोद्धारवृत्तौ च क्वचित् क्वचित् पाठभेदः दृश्यते ॥ शास्त्रवृत्तौ ३।९८ प० ५४४ ॥ ४. कोटपाल' इति योगशास्त्रवृत्तौ ॥ D:\new/d-1.pm5\3rd proof २०५ ]वृत्त्योः ।। ३. तुला - योग
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy