SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ सप्तमव्रतातिचारस्वरूपम्-श्लो० ५०॥] [१९१ पृथुकादेर्दुष्पक्वतया सम्भवत्सचेतनावयवत्वात् पक्वत्वेनाचेतन इति भुञ्जानस्यातिचार इति पञ्चमः ५। केचित् तु -अपक्वाहारमप्यतिचारत्वेन वर्णयन्ति । अपक्वं च यदग्निनाऽसंस्कृतम् । एष च सचित्ताहारे प्रथमातिचारेऽन्तर्भवति । तुच्छौषधिभक्षणमपि केचिदतिचारमाहुः । तुच्छौषधयश्च मुद्गादिकोमलशिम्बीरूपाः, ताश्च यदि सचित्तास्तदा सचित्तातिचार एवान्तर्भवन्ति, अथाग्निपाकादिनाऽचित्तास्तहि को दोषः ? इति । एवं रात्रिभोजनमद्यादिनिवृत्तिष्वपि अनाभोगाऽतिक्रमादिभिरतिचारा भावनीयाः । इत्थमतिचारव्याख्यानं तत्त्वार्थवृत्त्याद्यनुसारेण ज्ञेयम् । आवश्यक-पञ्चाशकवृत्त्यादिषु तु अपक्व-दुष्पक्व-तुच्छौषधिभक्षणस्य क्रमेण तृतीयाद्यतिचारत्वं दर्शितम् । तत्राक्षेपपरिहारावित्थम् - "नन्वपक्वौषधयो यदि सचेतनास्तदा सचित्तमित्याद्यपदेनैवोक्तार्थत्वात् पुनर्वचनमसङ्गतम् , अथाचेतनास्तदा कोऽतिचारो ? निरवद्यत्वात् तद्भक्षणस्येति । सत्यम् , किन्त्वाद्यावतिचारौ सचेतनकन्दफलादिविषयावितरे तु शाल्याद्योषधिविषया इति विषयकृतो भेदः, अत एव मूलसूत्रे "अप्पउलिओसहा हि)भक्खणया" [आवश्यक प्रत्याख्यान सू०, उपासकदशाङ्ग सू० ७] इत्याद्युक्तम् , ततोऽनाभोगाऽतिक्रमादिनाऽपक्वौषधिभक्षणमतिचारः, अथवा कणिक्कादेरपक्वतया सम्भवत्सचित्तावयवस्य पिष्टत्वादिनाऽचेतनमिदमितिबुद्ध्या भक्षणं व्रतसापेक्षत्वादतिचारः" । [पञ्चाशकटीका १/२२ प० १९] दुष्पक्वौषधिभक्षणभावना तु पूर्वोक्तैव। तुच्छौषधिभक्षणे त्वित्थम् –“ननु तुच्छौषधयोऽपक्वा दुष्पक्वाः सम्यक्पक्वा वा स्युः ? यदाऽऽद्यौ पक्षौ तदा तृतीय-चतुर्थातिचाराभ्यामेवास्योक्तत्वात् पुनरुक्तत्वदोषः । अथ सम्यक्पक्वास्तदा निरवद्यत्वादेव काऽतिचारता तद्भक्षणस्येति ?, सत्यम् , किन्तु १. तुला-पञ्चाशकवृत्तिः प० २० ॥ २. तुला-प्रवचनसारोद्धारवृत्तिः प० २०६ ॥ ३. तत्त्वार्थे ७।३० सूत्रस्य वृत्त्यनुसारेण धर्मबिन्दु-योगशास्त्रवृत्त्यनुसारेण च इति ज्ञेयम् । ४. प्रत्याख्यानावश्यके सू० ७, हारिभद्र्यां वृत्तौ प० ८२८, पञ्चाशकवृत्तौ प० २० । “भोअणओ समणोवासएणं पंच अइयारा जाणियव्वा न समायरियव्वा, तं जहा-सचित्ताहारे १, सचित्तपडिबद्धाहारे, २, अप्पउलिओसहिभक्खणया ३, दुप्पउलिओसहिभक्खणया ४, तुच्छोसहिभक्खणया ५" इति उपासकदशाङ्गे अध्ययन १ ॥ ५. तुला-पञ्चाशकवृत्तिः १।२२, प्रवचनसारोद्धारवृत्तिः प० २०४ ॥ ६. शाल्याद्यौषधि P. । शाल्योषधि इति पञ्चाशकवृत्तौ पाठः ।। ७. ओसहभक्ख L.P.C. I °ओसहिभक्ख इति आवश्यकसूत्रे पाठः ॥ ८. सम्भवात्सचित्ता इति पञ्चाशकवृत्तौ पाठः ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy