________________
१९०]
[धर्मसंग्रहः-द्वितीयोऽधिकारः सह चित्तेन-चेतनया वर्त्तते यः स सचित्तः, तेन -सचित्तेन प्रतिबद्धः -सम्बद्धस्तत्प्रतिबद्धः, सचित्तेन मिश्रः -सबलः संमिश्रः, अभिषवः-अनेकद्रव्यसन्धाननिष्पन्नः, दुष्पक्वो -मन्दपक्वः स चासावाहारश्चेत्यतिचाराः 'द्वैतीयीके' "द्वितीये स्वार्थे इकण्"[श्रीसि०६-४-१] 'गुणव्रते' भोगोपभोगपरिमाणाख्ये, ज्ञेया इति शेषः ।
तत्र सचित्तः -कन्दमूलफलादिः पृथिवीकायादि । इह च निवृत्तिविषयीकृतेऽपि सचित्तादौ प्रवृत्तावतिचाराभिधानं व्रतसापक्षस्यानाभोगाऽतिक्रमादिनिबन्धनप्रवृत्त्या द्रष्टव्यमन्यथा भङ्ग एव स्यात् । तत्रापि कृतसचित्तपरिहारस्य कृतसचित्तपरिमाणस्य वा सचित्तमधिकसचित्तं वाऽनाभोगादिना खादतः सचित्ताहाररूपः प्रथमोऽतिचारः । आहारशब्दस्तु दुष्पक्वाहार इत्यस्मादाकृष्य सम्बन्ध्यः, एवमुत्तरेष्वप्याहारशब्दयोजना भाव्या १।
सचित्तप्रतिबद्ध: -सचेतनवृक्षादिसम्बद्धो गुन्दादिः, पक्वफलादिर्वा, सचित्तान्तर्बीजः खजूरा-ऽऽम्रादिः, तदाहारो हि सचित्ताहारव कस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः । अथवा बीजं त्यक्ष्यामि सचेतनत्वात् तस्य, कटाहं त्वचेतनत्वाद्भक्षयिष्यामीतिधिया पक्वं खर्जरादिफलं मखे प्रक्षिपतः सचित्तवर्जकस्य सचित्तप्रतिबद्धाहारो द्वितीयः २।
सम्मिश्रः -अर्द्धपरिणतजलादिरार्द्रक-दाडिम-बीजपूरक-चिर्भटिकादिमिश्रपूरणादिर्वा तिलमिश्रो यवधानादिर्वा, एतदाहारोऽप्यनाभोगाऽतिक्रमादिनाऽतिचारः । अथवा सम्भवत्सचित्तावयवस्यापक्वकणिक्कादेः पिष्टत्वादिनाअचेतनमितिबद्ध्याऽऽहार सम्मिश्राहारो व्रतसापेक्षत्वादतिचार इति तृतीयः ३।
अभिषवः -सुरा-सौवीरकादिर्मांसप्रकारखण्डादिर्वा सुरा-मध्वाद्यभिस्यन्दिवृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारव कस्यानाभोगादिनाऽतिचार इति चतुर्थः ४।
तथा दुष्पक्वः -अर्द्धस्विन्नपृथुक-तन्दुल-यव-गोधूम-स्थूल-मण्डक-कङ्कडुकफलादिरैहिकप्रत्यवायकारी यावता चांशेन सचित्तस्तावता परलोकमप्युपहन्ति ।
१. तुला-तत्त्वार्थसूत्रस्य सिद्धसेनीयावृत्तिः ७।२०, पृ० ११४-५, योगशास्त्रवृत्तिः प० ५४१ ॥ २. तुला-धर्मबिन्दुवृत्तिः प० ४२, पञ्चाशकवृत्तिः प० १९, नवपदप्रकरणबृहद्वृत्तिः प० २२४, प्रवचनसारोद्धारवृत्तिः प० २०५ ॥ ३. वाच्या-L. || ४. गुन्दादि पक्वादिवा-इति प्रवचनसारोद्धारवृत्तौ प० २०५ ॥ ५. बीजकरवन्दकादिमिश्रः-इति प्रवचनसारोद्धारवृत्तौ । वीजकुचिभिटादिमिश्रः-इति योगशास्त्रवृत्तौः ५० ५४१ ॥ ६. कङ्कटुक” इति योगशास्त्रवृत्तौ प० ५४२ ॥
D:\new/d-1.pm53rd proof