________________
षष्ठव्रतातिचारस्वरूपम्— श्लो० ४९ । ]
[ १८९
यस्तु न करेमि न कारयामीति वा नियमं करोति, स विवक्षितक्षेत्रात् परतः स्वयं गमनतः परेण नयना-ऽऽनयनाभ्यां न दिक्प्रमाणातिक्रमं परिहरति, तदन्यस्य तु तथाविधप्रत्याख्यानाभावात् परेण नयनाऽऽनयनयोर्न दोष इति ३ ।
तथा क्षेत्रस्य – पूर्वादिदेशस्य दिग्व्रतविषयस्य ह्रस्वस्य सतो वृद्धिः - वर्द्धनं पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्घीकरणं क्षेत्रवृद्धिः, यथा - किल केनापि पूर्वाऽपरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतम्, स चोत्पन्नप्रयोजन एकस्यां दिशि नवतिं योजनानि व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचार इति चतुर्थः ४।
तथा स्मृतेः –स्मरणस्य योजनशतादिरूपदिक्परिमाणविषयस्यातिव्याकुलत्वप्रमादित्वमत्यपाटवादिना भ्रंशोध्वंसः स्मृतिभ्रंशः । तथाहि - केनचित् पूर्वस्यां दिशि योजनशतरूपं परिमाण कृतमासीत्, गमनकाले च स्पष्टतया न स्मरति, किं शथं परिमाणं कृतमुत पञ्चाशत् ? तस्य चैवमस्मृतौ पञ्चाशतमतिक्रामतोऽतिचारः शतमतिक्रामतो भङ्गः, सापेक्षत्वान्निरपेक्षत्वाच्चेति, तस्मात् स्मर्त्तव्यमेव गृहीतव्रतं, स्मृतिमूलं हि सर्वमनुष्ठानमिति पञ्चमोऽतिचारः ५।
इह चायं वृद्धसम्प्रदायः – यदि स्मृतिभ्रंशेनानाभोगाद्वा परिमाणमतिक्रान्तो भवति, तदा तेन ज्ञाते निवर्त्तितव्यम्, परतश्च न गन्तव्यम्, अन्योऽपि न विसर्ज्जनीयः । अथानाज्ञया कोऽपि गतो भवेत् तदा यत्तेन लब्धं, स्वयं विस्मृत्य गतेन वा, तन्न गृह्यत इति । तीर्थयात्रादिधर्मनिमित्तं तु नियमितक्षेत्रात् परतोऽपि साधोरिवेर्यासमित्युपयोगेन गच्छतो न दोषः, धनार्जनाद्यैहिकफलार्थमेवाधिकगमनस्य नियमनादिति दिग्विरमणव्रतातिचाराः ॥४९॥ अथ द्वितीयगुणव्रतस्य भोगोपभोगपरिमाणरूपस्यातिचारानाह - सचित्तस्तत्प्रतिबद्धः, संमिश्रोऽभिषवस्तथा । दुष्पक्वाहार इत्येते, द्वैतीयीके गुणवते ॥५०॥
१. तुला - धर्मबिन्दुवृत्तिः प० ४१, पञ्चाशकवृत्तिः प० १८, योगशास्त्रवृत्ति: प० ५४०, नवपदप्रकरणबृहद्वृत्तिः प० १९३, प्रवचनसारोद्धारवृत्तिः प० २०३, गा० २८० ॥ २. विष अति० इति योगशास्त्रवृत्तौ प० ५३९ । ३. तुला - तत्त्वार्थसूत्रस्य सिद्धसेनीयावृत्तिः ७ २५, पृ १११ ॥ ४. विस्मृतितो गतेन-इति योगशास्त्रवृत्तौ प० ५४० ॥
D:\new/d-1.pm5\3rd proof