________________
१८८]
[धर्मसंग्रहः-द्वितीयोऽधिकारः तल्लब्धम् , तच्चान्यस्मै व्रतभङ्गभयाद् ददाति । पूर्णेऽवधौ ग्रहीष्यामीतिभावनयेति व्रतसापेक्षत्वात् कथञ्चिद्विरतिबाधनाच्चातिचार इति ३।
गोमनुष्यादेर्गर्भत: सङ्ख्यातिक्रमो यथा -किल केनापि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं कृतम् , तेषां च संवत्सराद्यवधिमध्य एव प्रसवेऽधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति तद्भयात् कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिभावेन बहिर्गततदभावेन च कथञ्चिद् व्रतभङ्गादतिचारः ।।
कुप्यस्य भावतः सङ्ख्यातिक्रमो यथा -कुप्यस्य या सङ्ख्या कृता तस्याः कथञ्चिद् द्विगुणत्वे भूते सति व्रतभङ्गभयात् तेषां द्वयेन द्वयेनैकैकं महत्तरं कारयतः पर्यायान्तरकरणेन सङ्ख्यापूरणात् स्वाभाविकसङ्ख्याबाधनाच्चातिचारः ५। ___ अन्ये त्वाहुः -तदर्थित्वेन विवक्षितकालावधेः परतोऽहमेतत्करोटिकादि कुप्यं ग्रहीष्याम्यतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयतोऽतिचारः । पञ्चेत्युपलक्षणमन्येषां सहसाकारा-ऽनाभोगादीनामिति ॥४८।।
उक्ता अणुव्रतानां प्रत्येकं पञ्च पञ्चातिचाराः । अथ गुणव्रतानामतिचाराभिधानावसरः । तत्रापि प्रथमं प्रथमगुणव्रतस्य दिग्विरमणलक्षणस्यातिचारानाह -
मानस्य निश्चितस्योर्ध्वाधस्तिर्यक्षु व्यतिक्रमाः ।
क्षेत्रवृद्धिः स्मृतिभ्रंशः, स्मृता आद्यगुणव्रते ॥४९॥ उर्ध्वाधस्तिर्यक्षु निश्चितस्य मानस्य व्यतिक्रमाः क्षेत्रवृद्धिः स्मृतिभ्रंशश्चेति पञ्चातिचाराः 'आद्यगुणव्रते', दिग्विरमणाख्ये 'स्मृताः' जिनैरित्यन्वयः । तत्र उर्ध्वं - पर्वतशिखरादौ, अधो -भूमिगृहादौ, तिर्यक् –पूर्वादिदिक्षु , 'निश्चितस्य' नियमितस्य 'मानस्य' प्रमाणस्य 'मया योजनशतादि यावद् गमनादि विधेयं न परत' इत्येवंरूपस्य व्यतिक्रमा एते त्रयोऽतिचाराः । यत्सूत्रम् -
"उड्ढदिसिपमाणाइक्कमे, अहोदिसिपमाणाइक्कमे, तिरिअदिसिपमाणाइक्कमे" [ उपासकदशाङ्गसूत्रे अ० १ सू० ७ प० ६ आवश्यकप्रत्याख्याने सू० ६ ] त्ति ।
एते चानाभोगा-ऽतिक्रमादिभिरेवातिचारा भवन्ति, अन्यथाप्रवृत्तौ तु भङ्गा एव ।
१. तुला-योगशास्त्रवृत्तिः प० ५३८ ॥ २. तुला-धर्मबिन्दुवृत्तिः ३,१९, योगशास्त्रवृत्तिः प० ५३९, प्रवचनसारोद्धारवृत्तिः प० २०२ ।। ३. तुला-तत्त्वार्थसूत्रस्य सिद्धसेनीयावृत्तिः ७।२५, पृ० १११॥
D:\new/d-1.pm5\3rd proof