________________
पञ्चमव्रतातिचारस्वरूपम्-श्लो० ४८॥]
[१८७ मध्यमगतेर्विवक्षितत्वात् पञ्चकसङ्ख्ययैवातिचारपरिगणनम् । अतो धनधान्यादिसङ्ख्ययातिचाराणां [अ]गणनमुपपन्नम्" [सू० १६० प० ४१ A] इति धर्मबिन्दुवृत्तौ ॥४७॥ ननु प्रतिपन्नसङ्ख्यातिक्रमा भङ्गा एव स्युः, कथमतिचाराः ? इत्याह -
बन्धनात् योजनात् दानात् , गर्भतो भावतस्तथा ।
कृतेच्छापरिमाणस्य, न्याय्याः पञ्चापि न ह्यमी ॥४८॥ 'बन्धनात्''योजनात्''दानात्''गर्भतः''भावतः"अमी' गृहीतसङ्ख्यातिक्रमाः 'पञ्चापि' पञ्चसयाका अपि 'कतेच्छापरिमाणस्य' प्रतिपन्नपञ्चमव्रतस्य श्रावकस्य 'न न्याय्याः' न घटमाना व्रतमालिन्यहेतुत्वाद् ।
अयं भावः -न साक्षात् सङ्ख्यातिक्रमाः, किन्तु व्रतसापेक्षस्य बन्धनादिभिः । पञ्चभिर्हेतुभिः स्वबुद्ध्या व्रतभङ्गमकुर्वत एवातिचारा भवन्ति । बन्धनादयश्च यथासङ्ख्येन धन-धान्यादीनां परिग्रहविषयाणां सम्बध्यते ।।
तत्र धन-धान्यस्य बन्धनात् सङ्ख्यातिक्रमो यथा -कृतधन-धान्यपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनं धान्यं च ददाति. तच्च व्रतभक्भयाच्चतर्मास्यादिपरतो गहतो धनादिविक्रये वा कृते ग्रहीष्यामीतिभावनया बन्धनात् नियन्त्रणात् , रज्ज्वादिसंयमनात् सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य तद्गेह एव स्थापयतोऽतिचारः १।।
तथा क्षेत्र-वास्तुनो 'योजनात्' क्षेत्र-वास्त्वन्तरमीलनाद् गृहसङ्ख्यातिक्रमोऽतिचारो भवति । तथाहि -किलैकमेव क्षेत्रं वास्तु चेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्तिभित्त्याद्यपनयने च तत् तत्र योजयतो व्रतसापेक्षत्वात् कथञ्चिद्विरतिबाधनाच्चातिचार: २।
तथा रूप्य-सुवर्णस्य 'दानात्' वितरणात् , गृहीतसङ्ख्याया अतिक्रमः । यथा - केनापि चतुर्मासाद्यवधिना रूप्यादिसङ्ख्याविहिता, तेन च तुष्टराजादेः सकाशात् तदधिकं
१. “गणनमुचितम्-मु० C. | L.P. धर्मबिन्दुवृत्तावपि-गणनम्-इति ॥ २. अतो क्षेत्रवास्त्वादिसङ्ख्ययाऽतिचाराणामगणनमुपपन्नम्-इति धर्मबिन्दुवृत्तौ पाठः ॥ ३. गणन° L.P.C. मु० ॥ ४. तुला-योगशास्त्रवृत्तिः प० ५३५ ।। ५. तुला-योगशास्त्रवृत्तिः प० ३९५ प० ५३७ ॥ ६. तुलाधर्मबिन्दुवृत्तिः प० ४०, पञ्चाशकवृत्तिः प० १६, योगशास्त्रवृत्तिः प० ५३७-८, नवपदप्रकरणबृहद्वृत्तिः प० १८५, प्रवचनसारोद्धारवृत्तिः प० २०० ॥ ७. C. | वृत्ति० मु० । वृत्तिभित्त्याद्यपनयनेन-इति योगशास्त्रवृत्तौ प० ५३८ ।।
D:\new/d-1.pm5\3rd proof