SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १८२] [धर्मसंग्रह:-द्वितीयोऽधिकारः खात्रखननादिकमेव चौर्यं प्रसिद्ध, मया तु वणिक्कलैव कृतेतिभावनया व्रतरक्षणोद्यतत्वादतिचार इति । ___अथवा स्तेनाहृतग्रहादयः पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिनाऽतिक्रमादिना वा प्रकारेण विधीयमाना अतिचारतया व्यपदिश्यन्ते, न चैते राजसेवकादीनां न सम्भवन्ति । तथा हि-आद्ययोः स्पष्ट एव तेषां सम्भवः द्विडराज्यगतिस्तु यदा सामन्तादिः कश्चित् स्वस्वामिनो वृत्तिमुपजीवति, तद्विरुद्धस्य च सहायो भवति, तदा तस्यातिचारो भवति । मानविप्लवः प्रतिरूपक्रिया च यदा राजा भाण्डागारे मानान्यत्वं द्रव्याणां विनिमयं च कारयति तदा राज्ञोऽप्यतिचारो भवति ॥४५॥ इति प्रोक्तास्तृतीयव्रतातिचाराः । अथ चतुर्थव्रतस्य तानाह - परविवाहकरणं, गमोऽनात्तेत्वरात्तयोः ।। अनङ्गक्रीडनं तीव्ररागश्च ब्रह्मणि स्मृताः ॥४६॥ परविवाहकरणमनात्तागम इत्वरात्तागम अनङ्गक्रीडनं कामतीव्ररागश्चेति 'ब्रह्मणि' तुर्यव्रते पञ्चातिचाराः। तत्र परेषां -स्व स्वापत्यव्यतिरिक्तानां विवाहकरणं -कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिणयनविधानम् , इदं च स्वदारसन्तोषवता स्वकलत्रात् परदारवर्जन च स्वकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कार्यं न च कारणीयमिति यदा प्रतिपन्नं भवति, तदा परवीवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, तव्रती तु मन्यते - 'विवाह एवायं मया विधीयते, न मैथुनं कार्यते', इति व्रतसापेक्षत्वादतिचार इति । कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां सम्भवति, मिथ्यादृष्टेस्तु भद्रकावस्थायामनुग्रहार्थं व्रतदाने सा सम्भवति । नन्वन्यविवाहनवत्स्वापत्यविवाहनेऽपि समान एव दोषः ?, सत्यम् , यदि स्वकन्या न परिणाय्यते, तदा स्वच्छन्दकारिणी स्यात् , ततश्च शासनोपघातः स्यात् , विहितविवाहा तु पतिनियन्त्रितत्वेन न तथा स्यात् । परेऽप्याहुः - १. प्रतिषिद्धं-इति प्रवचनसारोद्धारवृत्तौ प० १९५ ॥ २. राज-राजसेवकादीनां-इति योगशास्त्रवृत्तौ प०५२८ । दृश्यतां पञ्चाशकटीका प० १३ ॥ ३. स्वापत्य इति धर्मबिन्दुवृत्तौ प० ३९ । तुला-पञ्चाशकटीका प० १४, योगशास्त्रवृत्तिः प० ५३१, प्रवचनसारोद्धारवृत्तिः प० १९८, नवपदप्रकरणबृहद्वृत्तिः प० १६८ ॥ ४. L.P.C. | स्वच्छन्दचारिणी-मु० योगशास्त्रवृत्तौ च प० ५३१ ।। D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy