________________
तृतीयव्रतातिचारस्वरूपम्-श्लो० ४५॥]
[१८१ तथा मीयते अनेनेति मानं -कुडवादि पलादि हस्तादि वा, तस्य विप्लवोविपर्यासः अन्यथाकरणं हीनाधिकत्वमितियावत् , हीनमानेन ददाति अधिकमानेन च गृह्णातीत्ययमपि तत्त्वतश्चौर एव । यदाह -
"लौल्येन किञ्चित्कलया च किञ्चिन्मापेन किञ्चित्तुलया च किञ्चित् । किञ्चिच्च किञ्चित्त समाहरन्तः, प्रत्यक्षचौरा वणिजो भवन्ति ॥१॥[] अधीते यत्किञ्चित्तदपि मुषितुं ग्राहकजनं, मृदु ब्रूते यद्वा तदपि विवशीकर्तुमपरम् । प्रदत्ते यत्किञ्चित्तदपि समुपादातुमधिकं; प्रपञ्चोऽयं वृत्तेरहह गहनः कोऽपि वणिजाम् ?" ॥२॥[ ] न चैवं श्रावकस्य युज्यत इति तृतीयोऽतिचारः ३।
तथा द्विषोः –विरुद्धयो राज्ञोरिति गम्यम् , राज्यं-नियमितभूमि: कटकं वा, तत्र गतिः -गमनं द्विड्राज्यगतिः राज्ञाऽननुज्ञाते गमनमित्यर्थः । द्विड्राज्यगमनस्य यद्यपि स्वस्वामिनाऽननज्ञातस्य "सामी जीवादत्तं. तित्थयरेणं तहेव य गरूहिं"[नवपदप्रकरणे गा० ३८] इत्यदत्तादानलक्षणयोगेन तत्कारिणां च चौर्यदण्डयोगेन अदत्तादानरूपत्वाद् व्रतभङ्ग एव । तथापि 'द्विड्राज्यगतिं कुर्वता मया वाणिज्यमेव कृतं न चौर्यम्' इतिभावनया व्रतसापेक्षत्वाल्लोके च चौरोऽयमिति व्यपदेशाभावादतिचारता । उपलक्षणत्वाद् राजनिषिद्धवस्तुग्रहणमपि तथेति चतुर्थोऽतिचार: ४। __'चः' पुनः प्रतिरूपं -सदृशम् , व्रीहीणां पलञ्जिः, घृतस्य वसा, तैलस्य मूत्रम् , हिङ्गोः खदिरादिवेष्टश्चणकादिपिष्टं गुन्दादि वा, कुङ्कमस्य कृत्रिमंतत् कुसुम्भादि वा, मञ्जिष्टादेश्चित्रकादि, जात्यकर्पूरमणिमौक्तिकसुवर्णरूप्यादीनां कृत्रिमं तत् तदादि, तेन प्रतिरूपेण 'क्रिया' व्यवहारः, व्रीह्यादिषु पलञ्ज्यादि प्रक्षिप्य तत्तद्विक्रीणीते, यद्वाऽपहृतानां गवादीनां सशृङ्गाणामग्निपक्वकालिङ्गीफलस्वेदादिना शृङ्गाण्यधोमुखानि प्रगुणानि तिर्यग्वलितानि वा यथारुचि विधायान्यविधत्वमिव तेषामापाद्य सुखेन धारणविक्रयादि करोतीति पञ्चमः ५।
मानविप्लवः प्रतिरूपक्रिया च परव्यंसनेन परधनग्रहणरूपत्वाद् भङ्ग एव, केवलं
१. नियमिता भूमिः-इति योगशास्त्रवृत्तौ प० ५२७ ॥ २. पलञ्जि-मु० | C.P. योगशास्त्रवृत्तावपि पलञ्जिः-इति ॥ ३. विधयान्यत्वमिव-इति योगशास्त्रवृत्तौ प० ५२८ ॥ ४. तुला-धर्मबिन्दुवृत्तिः प० ३८, पञ्चाशकवृत्तिः प० १३, नवपदप्रकरणबृहद्वृत्तिः प० १३९, प्रवचनसारोद्धारवृत्तिः भा० १ प० १९५ ॥
D:\new/d-1.pm53rd proof