SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १७८] [धर्मसंग्रहः-द्वितीयोऽधिकारः वधादिग्रहणस्य चोपलक्षणत्वात् क्रोधादिना हिंसादिहेतुमन्त्र-तन्त्रौषध-प्रयोगादयोऽन्येऽप्यतिचारतयाऽत्र व्रतेऽवगन्तव्याः ॥४३॥ अथ द्वितीयव्रतस्यातिचारानाह - सहसाभ्याख्यानं मिथ्योपदेशो गुह्यभाषणम् । कूटलेखश्च विश्वस्तमन्त्रभेदश्च सूनृते ॥४४॥ सत्यव्रते पञ्चातिचाराः ज्ञेयाः । तत्र सहसा-अनालोच्य 'अभ्याख्यानम् ,असदोषाध्यारोपणं यथा – 'चौरस्त्वं पारदारिको वा' इत्यादि । अन्ये त्वस्य स्थाने रहस्याभ्याख्यानं पठन्ति, व्याचक्षते च-रह:-एकान्तस्तत्र भवं रहस्यम् , रहस्योनाभ्याख्यानम् -अभिशंसनमसदध्यारोपणं रहस्याभ्याख्यानम यथा वद्धायै वक्ति 'अयं ते भर्त्ता तरुण्यामतिप्रसक्तः' तरुण्यै वक्ति 'अयं ते भर्ता प्रौढचेष्टितायां मध्यमवयसि प्रसक्तः' तथा 'अयं खरकामो मृदुकामः' इति वा परिहसति । तथा स्त्रियमभ्याख्याति भर्तुः पुरतः यथा -पत्नी ते कथयति –एवमयं मां रहसि कामगर्दभः खलीकुरुते' अथवा दम्पत्योः अन्यस्य वा पुंसः स्त्रियो वा येन रागप्रकर्ष उत्पद्यते, तेन तादृशा रहस्येनानेकप्रकारेणाभिशंसनं हास्यक्रीडादिना, न त्वभिनिवेशेन, तथा सति व्रतभङ्ग एव स्यात् । अस्यासदोषाभिधानरूपत्वेन प्रत्याख्यातत्वात् । यदाह - "सहसब्भक्खाणाई, जाणंतो जइ करेज्ज तो भंगो। जइ पुणणाभोगाईहिंतो तो होइ अइआरो" ॥१॥[] इत्थं च परोपघातकमनाभोगादिनाऽभिधत्ते तदा सङ्क्लेशाभावेन व्रतानपेक्षत्वाभावान्न व्रतभङ्गः, परोपघातहेतुत्वाच्च भङ्ग इति भङ्गा-ऽभङ्गरूप: प्रथमोऽतिचारः १। 'मिथ्योपदेशः' असदुपदेशः, प्रतिपन्नसत्यव्रतस्य हि परपीडाकरं वचनमसत्यमेव, ततः १. “मन्त्रतन्त्रप्रयोगा' इति योगशास्त्र[५२३] प्रवचनसारोद्धार[प०१९२]वृत्त्योः ॥ २. तुलापञ्चाशकवृत्तिः ४.११, योगशास्त्रवृत्तिः प० ५२४ ॥ ३. "थुलगस्समुसावायवेरमणस्स पंच अइयारा जाणियव्वा न समायरिव्वा तंजहा -सहसा अब्भक्खाणे १, रहसा अब्भक्खाणे २, सदारमंतभेए ३, मोसोवएसे ४, कूडलेहकरणे ५" इति उपाशकदशाङ्गे अध्ययन-१ । सू०..... । “मिथ्योपदेशरहस्याभ्याख्यान-कूटलेखक्रिया-न्यासापहार-साकारमन्त्रभेदाः" इति तत्त्वार्थ सूत्रे ७।२१। “मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखक्रिया-न्यासापहार-स्वदारमन्त्रभेदाः" इति धर्मबिन्दौ ३।२४। दृश्यतां तत्त्वार्थसूत्रस्य सिद्धसेनीयावृत्तिः ७।२१ प० १०५ ॥४. अथवाऽहंपत्योः मु० । L.P.C. योगशास्त्रवृत्तावपि प०५२४ अथवा दम्पत्यो इति ।। ५. स्त्रिया-इति योगशास्त्रवृत्तौ प०५२४ ॥ ६. तुला-धर्मबिन्दुटीका प० ३८, पञ्चाशकटीका प० १२, नवपदप्रकरणबृहद्वृत्तिः प० ११५ ॥ ७. तुला-प्रवचनसारोद्धारवृत्तिः गा० २७५ प० १९२ ॥ ८. तुला-तत्त्वार्थसूत्रस्य सिद्धसेनीयावृत्तिः ७।२१ पृ० १०५ ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy