________________
द्वितीयव्रतातिचारस्वरूपम्-श्लो० ४४॥]
[१७९ प्रमादात् परपीडाकरणे उपदेशेऽतिचारो यथा -वाह्यन्तां खरोष्ट्रादयो, हन्यन्तां दस्यव इति । यद्वा यथा स्थितोऽर्थस्तथोपदेशः साधीयान् , विपरीतस्तु अयथार्थोपदेशो यथा -परेण संदेहापन्नेन पृष्टे न तथोपदेशः । यद्वा विवाहे स्वयं परेण वा अन्यतराभिसंधानोपायोपदेशः, अयं च यद्यपि मृषा वादयामीत्यत्र व्रते भङ्ग एव, न वदामीति व्रतान्तरे न किञ्चन, तथापि सहसाकाराऽनाभोगाभ्यामतिक्रमादिभिर्वा मृषावादे परप्रवर्त्तनं व्रतस्यातिचारः । अथवा व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयं, व्रतसापेक्षत्वान्मृषावादे परप्रवर्त्तनाच्च भग्नाभग्नरूपत्वाद् व्रतस्येति द्वितीयोऽतिचारः २।
तथा 'गुह्यं' गुहनीयं न सर्वस्मै यत्कथनीयं राजादिकार्यसम्बद्धं तस्यानधिकृतेनैवाकारेङ्गितादिभित्विाऽन्यस्मै प्रकाशनं गुह्यभाषणम् , यथा -एते हीदमिदं च राजविरुद्धादिकं मन्त्रयन्ते । अथवा गुह्यभाषणं-पैशून्यम् , यथा -द्वयोः प्रीतौ सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति । अस्याप्यतिचारत्वं रहस्याभ्याख्यानवद्धास्यादिनैवेति तृतीयोऽतिचार: ३।
तथा कूटम् -असद्भूतं तस्य लेखो-लेखनं कूटलेखः, अन्यसरूपाक्षरमुद्राकरणम् । एतच्च यद्यपि 'कायेनासत्यां वाचं न वदामि' इत्यस्य, 'न वदामि न वा वादयामी'त्यस्य वा व्रतस्य भङ्ग एव, तथापि सहसाकाराऽनाभोगादिनाऽतिक्रमादिना वाऽतिचारः, अथवा 'असत्यमित्यसत्यभणनं मया प्रत्याख्यातम् , इदं पुनर्लेखनम्' इतिभावनया व्रतसापेक्षस्यातिचार एवेति चतुर्थः ।।
तथा विश्वस्ता-विश्वासमुपगता ये मित्र-कलत्रादयस्तेषां मन्त्रो-मन्त्रणम् , तस्य भेदः-प्रकाशनम् । तस्यानुवादरूपत्वेन सत्यत्वाद्यद्यपि नातिचारता घटते, तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितो मित्र-कलत्रादेर्मरणादिसम्भवेन परमार्थतोऽस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वेनातिचारतैव । गुह्यभाषणे गुह्यमाकारादिना विज्ञायानधिकृत
१. अन्यतरातिसंधानो इति योगशास्त्रवृत्तौ प० ५२४ । “वञ्चनं तु प्रतारणं व्यलीकमतिसन्धानम्" इति अभिधानचिन्तामणौ श्लो० ३७९ । “अतिसन्धानं छलनम्" इति तत्त्वार्थसूत्रभाष्यस्य सिद्धसेनगणिविरचितायां वृत्तौ ७।२१ पृ० १०५ । इति योगशास्त्रटिप्पणे प० ५२४ ॥ २. दृश्यतां तत्त्वार्थसूत्रस्य सिद्धसेनीयावृत्तिः ७।२१ पृ० १०६ ॥ ३. तुला-प्रवचनसारोद्धारवृत्तिः प० १९२ ॥ ४. तुला-धर्मबिन्दुवृत्तिः प० ३८, पञ्चाशकवृत्तिः प० १२, नवपदप्रकरणबृहवृत्तिः प० ११५, प्रवचनसारोद्धारवृत्तिः प० १९३ ।। ५. व्रतसव्यपेक्षस्या इति योगशास्त्रवृत्तौः प० ५२६ ।।
D:\new/d-1.pm53rd proof