SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २० २४ २८ ३२ प्रथमव्रतातिचारस्वरूपम्-श्लो० ४३॥] [१७५ विनयप्रतिपत्तिलक्षणानां विनयवादिनां ३२ भेदयन्त्रम् सुरविनयः | नृपविनयः | ज्ञातिवि. | यतिवि. | स्थविरवि. | अवमवि. | मातृवि. | पितृविनयः १२ कायेन १ वचसा २ | का.व.म. का.व.म. का.व.म. | का.व.म. का.व.म. | का.व.म. | कायेन १ वचसा २ मनसा ३ दा. ४ दा. ४ । दा. ४ | दा. ४ दा. ४ दा. ४ मनसा ३ दानेन ४ दानेन ४ सम्यक्त्वस्य प्रदर्शिताः पञ्चातिचाराः, अथ प्रथमाणुव्रतस्य तानाह - वधो बन्धश्छविच्छेदोऽतिभारारोपणं क्रुधः । भक्तपानव्यवच्छेदोऽतिचाराः प्रथमव्रते ॥४३॥ क्रुध इति पदं सर्वत्र योज्यते, तत्र 'क्रुधः' क्रोधात् वधो बन्धः छविच्छेदोऽतिभारारोपणं भक्त-पान व्यवच्छेदश्चकारो गम्य इति पञ्चातिचाराः 'प्रथमव्रते' आद्याणुव्रते ज्ञेया इत्यन्वयः । तत्र 'वधः' चतुष्पदादीनां लगुडादिना ताडनम् , स च स्वपुत्रादीनामपि विनयग्रहणार्थं क्रियते, अत उक्तं –'क्रोधादिति' प्रबलकषायोदयाद् यो वधः स प्रथमोऽतिचार इति भावः । ___ 'बन्धो' रज्ज्वादिना नियन्त्रणम् , सोऽपि पुत्रादीनां क्रियत इति क्रुध इति संबध्यते इति द्वितीयोऽतिचार: २। छविः -शरीरं त्वग् वा तस्याच्छेदश्छविच्छेदः -कर्ण-नासिका-गलकम्बलपुच्छादिकर्त्तनम् , अयमपि क्रुध इत्येव । तेन पादवल्मीकोपहतपादस्य पुत्रादेस्तत्करणेऽपि नातिप्रसङ्ग इति तृतीयोऽतिचार: ३। अतिशयितो भारोऽतिभारो वोढुमशक्य इतियावत् , तस्यारोपणं -गो-करभ-रासभमनुष्यादेः स्कन्धे पृष्ठे शिरसि वा स्थापनम् , इहापि क्रोधात् तदुपलक्षितलोभाद्वेति-योज्यमिति चतुर्थोऽतिचारः ।। भक्तम् -अशनमोदनादि, पानं-पेयं जलादि, तयोर्व्यवच्छेदो-निषेधः, क्रुध एवेति पञ्चमोऽतिचार: ५। अत्र चायमावश्यकचूाधुक्तो विधि: -वधो द्विपदानां चतुष्पदानां वा स्यात् , १. व्यवच्छेदश्च(च)कारो-मु० । व्यवच्छेदश्चकारो-C.P. ॥ २. तुला-योगशास्त्रवृत्तिः ३/९०, प्रवचनसारोद्धारवृत्तिः भा० १ । प० १८९ ।। ३. मोदकादि-L. ॥ ४. तुला-आवश्यकहारिभद्रीयवृत्तिः प०८१९-२०, आवश्यकचूणिः प० २८४-५, तत्त्वार्थसिद्धसेनीयावृत्तिः ७।२०, प० १०३-४, D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy