________________
१६८ ]
[ धर्मसंग्रहः - द्वितीयोऽधिकारः स च यदि प्रथमायां पौरुष्यां निमन्त्रयते, अस्ति च नमस्कारसहितप्रत्याख्यानी ततस्तद् गृह्यते, अथ नास्त्यसौ तदा न गृह्यते । यतस्तद्बोढव्यं भवति, यदि पुनर्घनं लगेत् तदा गृह्यते संस्थाप्यते च । यो वा उद्घाटपौरुष्यां पारयति पारणकवानन्यो वा, तस्मै तद् दीयते । पश्चात् तेन श्रावकेण संसंघाटको व्रजति, एको न वर्त्तते प्रेषयितुम्, साधू पुरतः श्रावकस्तु मार्गे (मार्गतो) गच्छति । ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते । यदि निविशेते तदा भव्यम्, अथ न निविशेते तथापि विनयः प्रयुक्तो भवति । ततोऽसौ भक्तं पानं च स्वयमेव ददाति, भाजनं वा धारयति, स्थित एव वाऽऽस्ते यावद् दीयते । साधू अपि पश्चात्कर्मपरिहारार्थं सावशेषं गृह्णीत: ततो वन्दित्वा विसर्जयति, अनुगच्छति च कतिचित्पदानि, ततः स्वयं भुङ्क्ते ।
यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन च चिन्तयति-यदि साधवोऽभविष्यन् तदा निस्तारितोऽभविष्यमिति । एष पोषधपारणके विधिः । अन्यदा तु दत्वा भुङ्क्ते भुक्त्वा वा ददातीति ।
उमास्वातिवाचकविरचितश्रावकप्रज्ञप्तौ तु अतिथिशब्देन साध्वादयश्चत्वारो गृहीता:, ततस्तेषां संविभागः कार्य इत्युक्तं । तथा च तत्पाठः
" अतिथिसंविभागो नाम अतिथयः साधवः साध्व्यः श्रावकाः श्राविकाश्च, एतेषु गृहमुपागतेषु भक्त्याऽभ्युत्थानासनपादप्रमार्जननमस्कारादिभिरर्चयित्वा यथाविभवशक्ति अन्नपानवस्त्रौषधालयादिप्रदानेन संविभागः कार्यः" [ श्रा.प्र. ] इति ।
-
एतद्व्रताराधनायैव प्रत्यहं श्रावकेण "फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछेणेणं पोढफलगसिज्जासंथारेणं ओसहभेसज्जेणं भयवं ! अणुग्गहो कायव्वो” [ ] इत्यादिना गुरूणां निमन्त्रणं क्रियते । एतद्व्रतफलं च दिव्यभोगसमृद्धिसाम्राज्य-तीर्थकृत्पदादि श्रीशालिभद्र - मूलदेवाद्यन्तार्हदादीनामिव सर्वं प्रसिद्धम् । पारम्यर्येण मोक्षोऽपि फलमस्ति । वैपरीत्ये तु दास्यदौर्गत्याद्यपीति ।
I
अभिहितं चतुर्थं शिक्षापदव्रतम्, तदभिधाने च प्रतिपादितानि ससम्यक्त्वानि द्वादश श्रावकव्रतानि । तानि च विशेषतो गृहिधर्म इति योजितमेव ॥४०॥
अथ तच्छेषमतिचाररक्षणलक्षणं विशेषतो गृहिधर्मं प्रस्तौति - एषां निरतिचाराणां, पालनं शुद्धभावतः ।
पञ्च पञ्चातिचाराश्च, सम्यक्त्वे च प्रतिव्रते ॥४१॥
१. समं संघाटको-इति योगशास्त्रवृत्तौ प० ५०३ ॥ २. मार्गे L.P. C. । मार्गतो - इति योगशास्त्रवृत्तौ प० ५०३ ॥
D:\new/d-1.pm5\3rd proof