SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ चतुर्थशिक्षाव्रतस्वरूपम्— श्लो० ४० ॥] तथा-'साहूण कप्पणिज्जं, जं न वि दिन्नं कंहिंचि किंचि तहिं । धीरा जहुत्तकारी, सुसावगा तं न भुंजन्ति ॥३॥ वसही-सयणाऽऽसण-भत्तपाणभेसज्जवत्थपायाई । जइ वि न पज्जत्तधणो, थोवा वि हु थोवयं दिज्जा" ॥४॥ [ उपदेशमाला २३९ - २४०, सम्बोधप्र. श्रावक व्रता. १३९ - १४० ] वाचकमुख्यस्त्वाह - “किञ्चित् शुद्धं कल्प्यमकल्प्यं स्यात् स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं, पात्रं वा भेषजाद्यं वा ॥ १ ॥ [ प्रश. र. / १४६ ] [ १६७ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं, नैकान्तात् कल्पते कल्प्यम्" ॥२॥ [ प्रश.र./ १४७] ननु यथा शास्त्रे आहारदातारः श्रूयन्ते, न तथा वस्त्रादिदातारः, न च वस्त्रादिदानस्य फलं श्रूयते, तन्न वस्त्रादिदानं युक्तम् । नैवम्, भगवत्यादौ वस्त्रादिदानस्य साक्षादुक्तत्वात् । यथा - "समणे निग्गंथे फासुयएसणिज्जेणं असण- पाण- खाइम - साइमेणं वत्थ - पडिग्गहकंबल - पायपुंछणेणं पीढ - फलग - सिज्जा - संथारएणं पडिला भेमाणे विहरति " [ भगवतीसूत्रे ] इत्याहारवत्संयमाधारशरीरोपकारकत्वाद्वस्त्रादयोऽपि साधुभ्यो देयाः । [ योगशास्त्रवृत्तिः ३/८७ प० ४९६-८ ] संयमोपकारित्वं च वस्त्रादीनां यथोपपद्यते तथा यतिधर्माधिकारे वक्ष्यते । ईह वृद्धोक्ता सामाचारी - श्रावकेण पोषधं पारयता नियमात् साधुभ्यो दत्वा भोक्तव्यम्, कथम् ? यदा भोजनकालो भवति, तदाऽऽत्मनो विभूषां कृत्वा प्रतिश्रयं च गत्वा साधून्निमन्त्रयते, ‘भिक्षां गृह्णीत' इति साधूनां च तं प्रति का प्रतिपत्तिः ? उच्यते, तदैकः पटलमन्यो मुखानन्तकमपरो भाजनं प्रत्युपेक्षते, माऽन्तरायदोषाः स्थापनादोषा वाभूवन्निति । १. कहिं पि-इति सम्बोधप्रकरणे ॥ २. पाणनेसज्ज० मु० । P. C. सम्बोधप्रकरण-योगशास्त्रवृत्त्योरपि 'पाणभेसज्ज' इति ॥ ३. पत्ता- इति सम्बोधप्रकरणे ॥। ४. स्यात् - मु० नास्ति ॥ ५. तुलाआवश्यकचूर्णिः प० ३०५ -६, आवश्यकहारिभद्रीयवृत्तिः प० ८३७, पञ्चाशकवृत्तिः प० २७, श्रावकप्रज्ञप्तिवृत्तिः गा० ३२६, योगशास्त्रवृत्ति: ३।८७ ० ५०२ - ३ ॥ ६. प्रत्यवेक्षते - इति योगशास्त्रवृत्तौ प० ५०३ ।। ७. वाऽभूवन्निति - मु० । P. C. योगशास्त्रवृत्तावपि वा भूवन्निति ॥ D:\new/d-1.pm5\ 3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy