________________
अतिचारस्वरूपम्-श्लो० ४१॥]
[१६९ ___ 'एषां' सम्यक्त्वसहितद्वादशव्रतानां कीदृशानाम् ? 'निरतिचाराणाम्' अतिचारा देशभङ्गहेतवः आत्मनोऽशुभाः परिणामविशेषाः । निर्गता अतिचारा येभ्यस्तेषां अतिचाररहितानामित्यर्थः, 'शुद्धभावतः' शुद्धः -अतिक्लिष्टमिथ्यात्वादिकर्मोदयकलङ्कपङ्करहितत्वेन निर्मलो भावः –क्षायोपशमिकलक्षण: आत्मपरिणामस्तद्धेतुभूतेन पालनं' धारणं विशेषतो गृहिधर्मो भवतीति पूर्वेणान्वयः ।
निरतिचाराणामेषां पालनमित्युक्तमित्यतिचारज्ञानस्यावश्यकत्वात् तानेवाह –'पञ्च पञ्च' इति अतिचारा उक्तस्वरूपाः पञ्च पञ्च भवन्ति । वीप्सायां द्वित्वम् , कुत्र? 'सम्यक्त्वे' पूर्वोक्तस्वरूपे 'च' पुन: 'प्रतिव्रते' वीप्सायामव्ययीभावस्ततो व्रते व्रत इत्यर्थः ।
नेनु सर्वविरतावेवातिचारा भवन्ति, संज्वलनोदय एव तेषामभिधानात् । यदाह - "सव्वे वि अ अइआरा, संजलणाणं तु उदयओ हुँति। मूलछिज्जं पुण होइ, बारसण्हं कसायाणं" ॥१॥[आव.नि.११२, पंचा.१७/५०]
संज्वलनोदयश्च सर्वविरतानामेव सम्यगदृष्टिदेशविरतानां त अप्रत्याख्यान-प्रत्याख्यानावरणोदय इति न सम्यक्त्वे देशविरतौ चातिचारसम्भवः । युज्यते चैतद् , अल्पीयत्वाद् देशविरतेः, कुन्थुशरीरे व्रणाद्यसम्भवात् । तथाहि -प्रथमाणुव्रते स्थूलं संकल्पं निरपराधं द्विविधं त्रिविधेनेत्यादिविकल्पैर्विशेषितत्वेनातिसूक्ष्मतां गते देशाभावात् कथं देशविराधनारूपा अतिचाराः स्युः ?, अत: सर्वनाश एव तस्योपयुज्यते, महाव्रतेषु तु ते सम्भवन्ति, महत्त्वादेव, हस्तिशरीरे व्रणपट्टबन्धादिवदिति । ___ उच्यते -सम्यक्त्वे देशविरतौ चातिचारा न सम्भवन्तीत्यसङ्गतम् , उपासकदशादिषु प्रतिव्रतमतिचारपञ्चकाभिधानात् । 'सव्वेवि अ अइआरा' इति च सर्वविरतिमेवाश्रित्य, न तु सम्यक्त्वदेशविरती, यतः “सव्वे वि अ अइआरा" इत्यादि गाथाया एवं व्याख्या, तथाहि – “संज्वलनानामुदये सर्वविरतावतिचारा भवन्ति । शेषाणामुदये तु मूलच्छेद्यमेव तस्याम्" इति एवं च न देशविरतावतिचाराभावः ।
यदप्यधिकृतगाथापश्चाद्ध प्रकारान्तरेण व्याख्यायते यथा -मूलच्छेदः सर्वविरतेः तृतीयानामुदये, देशविरतेद्वितीयानाम् , सम्यक्त्वस्य प्रथमानामिति । तेनापि देशविरत्यादौ नातिचाराभावस्तथाहि –यथा संज्वलनोदये सर्वविरतिरवाप्यते, तत्रातिचारश्च भवन्ति । एवं
१. चः-मु० ॥ २. तुला-पञ्चाशकवृत्तिः प० ८-९, योगशास्त्रवृत्तिः ३।८९ प० ५१८-९ ॥ ३. स्थूलसंकल्पनिरपराधद्विविधं-इति योगशास्त्रवृत्तौ प०५१९ ।। ४. द्रष्टव्यम् अध्ययन १। सू०७॥ ५. L.P. I तथाह-मु० C. ॥
D:\new/d-1.pm5\3rd proof