________________
चतुर्थशिक्षाव्रतस्वरूपम्-श्लो० ४०॥]
[१६५ न च "चाउदसट्ठमुद्दिट्टपुण्णिमासीसु पडिपुण्णं पोसहं अणुपालेमाणा"[ ] इति सूत्रकृदङ्गादौ श्रावकवर्णनाधिकारीयाक्षरदर्शनादष्टम्यादिपर्वस्वेव पोषधः कार्यो न शेषदिवसेष्विति वाच्यम् ।
विपाकश्रुताङ्गे सुबाहुकुमारकृतपौषधत्रयाभिधानात् । तथा च सूत्रम् -
"तए णं से सुबाहुकुमारे अन्नया कयाइ चाउद्दसट्ठमुट्ठिपुण्णमासीसु जाव पोसहसालाए पोसहिए अट्ठमभत्तिए पोसहं पडिजागरमाणो विहरइ'' [ विपा. श्रुत. २, अध्य. १ पृ. ६३८] त्ति ।
एतद्वतफलं त्वेवमुक्तम् - "कंचणमणिसोवाणं, थंभसहस्सुस्सिअं सुवण्णतलं ।
जो कारिज जिणहरं, तओ वि तवसंजमो अहिओ" ॥१॥[सं.प्र.श्रा./१३०] एकस्मिन् सामायिके मुहूर्त्तमात्रे "बाणवई कोडीओ०" [ सम्बोधप्र.श्रा./११५] इतिगाथया प्रागुक्तलाभः । स त्रिंशन्मुहूर्तमानेऽहोरात्रपोषधे त्रिंशद्गुणो बादरवृत्त्या । स चायम् - "सत्तत्तरि सत्त सया, सतहत्तरि सहसलक्खकोडीओ।
सगवीसं कोडीसया, नवभागा सत्त पलिअस्स" ॥१॥ [सं.प्र.श्रा./१३४] अङ्कतोऽपि १२७७७७७७७७७७: एतावत्पल्यायुर्बन्ध एकस्मिन् पोषधे ॥३९।। इति प्रतिपादितं तृतीयं शिक्षापदव्रतम् । अथ चतुर्थं तदाह -
आहारवस्त्रपात्रादेः, प्रदानमतिथेच्दा ।
उदीरितं तदतिथिसंविभागवतं जिनैः ॥४०॥ अतिथिः -तिथिपर्वादिलौकिकव्यवहारपरिवर्जको भोजनकालोपस्थायी भिक्षुविशेषः । उक्तं च -
"तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना ।
अतिथिं तं विजानीयात् , शेषमभ्यागतं विदुः" ॥१॥[ ] इति । श्रावकस्य साधुरेवेति । तस्यातिथेः साधोः 'मुदा' हर्षेण गुरुत्वभक्त्यतिशयेन न त्वनुकम्पादिनेत्यर्थः ‘प्रदानं' प्रकर्षेण मनोवाक्कायशुद्ध्या दानं -विश्राणनं कस्य ? आहार-वस्त्र-पात्रादेः' तत्राहारोऽशनादि: चतुर्विधः, वस्त्रं प्रतीतम् । कम्बलो वा, पात्रं
१. ७७७७७७७७७७८६०।४° इति सम्बोधप्रकरणे ॥ २. कम्बल-L. ॥
D:\new/d-1.pm5\3rd proof