________________
१४२ ]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
तत्र मुख्यवृत्त्या सुश्रावकेण सचित्तं सर्वथा त्याज्यं, तदशक्तौ नामग्राहम्, तथाऽप्यशक्तौ सामान्यत एकद्वयादि नियम्यं यतः – “निरवज्जाहारेणम्' इति पूर्वलिखिता गाथेति । परं प्रतिदिनैकसचित्ताभिग्रहिणो हि पृथक् पृथक् दिनेषु परावर्त्तनेन सर्वसचित्तग्रहणमपि स्यात्, तथा च न विशेषविरतिः । नामग्राहं सचित्ताभिग्रहे तु तदन्यसर्वसचित्तनिषेधरूपं यावज्जीवं स्पष्टमेवाधिकं फलम् । उक्तं च
"पुप्फफलाणं च रसं, सुराइ मंसाण महिलिआणं च ।
जाणता जे विरया, ते दुक्करकारए वंदे" ॥१॥ [ ]
सचित्तेष्वपि नागवल्लीदलानि दुस्त्यजानि । शेषसचित्तानां प्रायः प्रासुकीभवनं स्वल्पकालमध्येऽपि दृश्यते । एषु तु निरन्तरं जलक्लेदादिना सचित्तता सुस्थैव, कुन्वादिविराधनापि भूयसी च, तत एव पापभीरुणा त्याज्यानि । अन्यथाऽपि रात्रौ न व्यापार्याणि । रात्रिव्यापारणेऽपि दिवा संशोधनादियतनाया एव मुख्यता । ब्रह्मचारिणा तु कामाङ्गत्वात् त्याज्यान्येव । सचित्तभक्षणे दोषस्तु अनेकजीवविराधनारूपः । यतः प्रत्येकसचित्तेऽप्येकस्मिन् पत्रफलादावसङ्ख्यजीवविराधनासम्भवः यद् आगमः - "जं भणिअं पज्जत्तगनिस्साए वुक्कमंत अपजत्ता ।
जत्थेगो पज्जत्तो, तत्थ असंखा अपज्जत्ता ॥१॥ [ प्र.तृ.सं./ ४६ ] बादरेष्वेकेन्द्रियेष्वेवमुक्तम्, सूक्ष्मेषु तु यत्रैकोऽपर्याप्तस्तत्र तन्निश्रया नियमादसङ्ख्याः पर्याप्ताः स्युरित्याचाराङ्गवृत्त्यादौ प्रोक्तम् । एवमेकस्मिन्नपि पत्रादावसङ्ख्यजीवविराधना तदाश्रितजलनील्यादिसम्भवे त्वनन्ता अपि । जललवणादि चासङ्ख्यजीवात्मकमेव । यद् आर्षम् -
" एगंमि उदगबिंदुम्मि, जे जीवा जिणवरेहिं पण्णत्ता ।
ते जइ सरिसवमित्ता, जंबुद्दीवे न मायंति ॥ १॥ [ सम्बो.स./९५] अद्दामलगप्पमाणे, पुढविक्काए हवंति जे जीवा ।
ते पारेवयमित्ता, जंबुद्दीवे न मायंति" ॥२॥ [ सम्बो. स. / ९४] सर्वसचित्तत्यागेऽम्बडपरिव्राजकसप्तशतशिष्यनिदर्शनम्, एवं सचित्तत्यागे यतनीय
मिति प्रथमनियमः १ |
१. तदशक्तौ नामग्राहं, तथाप्यशक्तौ सामान्यत - मु० । तदशक्तौ सामान्यतो - L. । तदशक्तौ नामग्राहं सामन्येन - इति श्राद्धविधिवृत्तौ प० ४३ ॥ २. तुला - श्राद्धविधिवृत्तिः प० ४२ ।। ३. अद्दामलप्पमाणे-P.L. । अद्दामलगपमाणे - इति श्राद्धविधिवृत्तौ प० ४३ ॥ ४. "त्यागे चाम्बड इति श्राद्धविधिवृत्तौ प० ४३ ॥
D:\new/d-1.pm5\3rd proof