SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १४०] [धर्मसंग्रहः-द्वितीयोऽधिकारः __"सेंडुगं तिवरिसाइ, गिर्हति" [बृ.क.भा.] सेडूकं त्रिवर्षातीतं विध्वस्तयोनिकमेव कल्पते । “सेडूकः कर्पास' इति तद्वृत्तौ । पिष्टस्य तु मिश्रताद्येवमुक्तं पूर्वसूरिभिः - "पणदिण मीसो लुट्टो, अचालिओ सावणे अ भद्दवए । चउ आसोए कत्तिअमगसिरपोसेसु तिन्नि दिणा ॥१॥[] पणपहर माहफग्गुण, पहरा चत्तारि चित्तवइसाहे। जिट्ठासाढे तिपहर, तेण परं होइ अच्चित्तो" ॥२॥[ ] चालितस्तु मूहूर्तादूर्ध्वमचित्तः, तस्य चाचित्तीभूतानन्तरं विनशनकालमानं तु शास्त्रे न दृश्यते, परं द्रव्यादिविशेषेण वर्णादिविपरिणामाभवनं यावत् कल्पते । उष्णनीरं तु त्रिदण्डोत्कलनावधि मिश्रम् । यदुक्तं पिण्डनियुक्तौ - "उसिणोदगमणुवत्ते, दंडे वासे अ पडिअमित्तंमि । " ॥१॥[पि.नि./१८] व्याख्या -अनुवृत्तेषु त्रिदण्डेषु –उत्कालेषु जलमुष्णं मिश्रम् , ततः परमचित्तम् । तथा वर्षे -वृष्टौ पतितमात्रायां ग्रामादिषु प्रभूतमनुष्यप्रचारभूमौ यज्जलं तद्यावन्न परिणमति तावन्मिश्रम् । अरण्यभूमौ तु यत्प्रथमं पतति तत्पतितमात्रं मिश्रम् , पश्चान्निपतत् सचित्तम् , आदेशत्रिकं मुक्त्वा तन्दुलोदकमबहुप्रसन्नं मिश्रम् , अतिस्वच्छीभूतं त्वचित्तम् । ___ अत्र त्रय आदेशा यथा -केचिद् वदन्ति तन्दुलोदके तन्दुलप्रक्षालनभाण्डादन्यत्र भाण्डे क्षिप्यमाणे त्रुटित्वा भाण्डपार्वे लग्ना बिन्दवो यावन्न शाम्यन्ति तावन्मिश्रम् , अपरे तु तथैव जाता यावद् बुबुदा न शाम्यन्ति तावत् , अन्ये तु यावत् तन्दुला न सिद्ध्यन्ति तावत् । एते त्रयोऽप्यादेशा अनादेशाः, रूक्षेतरभाण्डपवनाग्निसम्भवादिभिरेषु कालनियमस्याभावात् , ततोऽतिस्वच्छीभूतमेवाचित्तम् । "नीव्वोदगस्स गहणं, केई भाणेसु असुई पडिसेहो । गिहिभायणेस गहणं.ठिअवासे मीसगं छारो" ॥२॥ पि.नि./३२1 १. सेडुगं-L.C. श्राद्धविधिवृत्तौ च प० ४१ ॥ २. परन्तु द्रव्या L. ॥ ३. तुला-श्राद्धविधिवृत्तिः प० ४२-४३ ॥ ४. दंडे (तिदंड)वासे-मु० दंडे वासे-L.P.C. पिण्डनिर्युक्तौ श्राद्धविधिवृत्तौ च ॥ ५. चाउलदगेऽबहुपसन्नं-इति पिण्डनिर्युक्तौ ।। ६. एते त्रयोऽप्यादेशा रूक्षे० L.P.C. । एते त्रयोप्यनादेशा-इति श्राद्धविधिवृत्तौ पाठः ॥ D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy