________________
१३८]
[धर्मसंग्रहः-द्वितीयोऽधिकारः "हरियालमणोसिलपिप्पलीअखज्जूरमुद्दिआ अभया। आइन्नमणाइन्ना, ते वि हु एमेव नायव्वा" ॥२॥
[बृ.क.भा. ९७४, नि.भा. ४८३४, प्र.सा. १००२] हरितालं मनःशिला पिप्पली च खजूरः एते प्रसिद्धाः, मुद्रि(मृद्वी)का द्राक्षा, अभया हरीतकी, एतेऽप्येवमेव लवणवद्योजनशतगमनादिभिः कारणैरचित्तीभवन्तो ज्ञातव्याः, परमेकेऽत्राचीर्णाः, अपरेऽनाचीर्णाः । तत्र पिप्पलीहरीतकीप्रभृतय आचीर्णा इति गृह्यन्ते । खजूरमुद्रि(मृद्वी)कादयः पुनरनाचीर्ण इति न गृह्यन्ते । अथ सर्वेषां सामान्येन परिणमनकारणमाह -
"आरुहणे ओरुहणे, निसिअणगोणाइणं च गाउम्हा । भूम्माहारोच्छेए, उवक्कमेणं च परिणामो" ॥३॥
___ [बृ.क.भा. ९७५, नि.भा. ४८३५, प्र.सा. १००३] शकटादिषु लवणादीनां यद् भूयो भूय आरोहणवरोहणं च, तथा यत् तस्मिन् शकटादौ लवणादिभारोपरिमनुष्या निषीदन्ति, तेषां गवादीनां च यः कोऽपि पिष्टा(पृष्ठा)दिगात्रोष्मा तेन वा परिणामो भवति । तथा यो यस्य भौमादिकः पृथिव्यादिक आहारस्तव्यवच्छेदे, तस्य, परिणामः, उपक्रमः -शस्त्रम् , तच्च त्रिधा -स्वकाय-परकाय-तदुभयरूपम् ।
तत्र स्वकायशस्त्रं यथा -लवणोदकं मधुरोदकस्य, कृष्णभूमं वा पाण्डुभूमस्य । परकायशस्त्रं यथा -अग्निरुदकस्य, उदकं चाग्नेरिति । तदुभयशस्त्रं यथा -उदकमृत्तिका शुद्धोदकस्येत्यादि । एवमादीनि सच्चित्तवस्तूनां परिणमनकारणानि मन्तव्यानि ।
"उप्पलपउमाई पुण, उण्हे दिण्णाइँ जाम न धरिति । मोग्गरगजूहिआओ, उण्हे छूढा चिरं हुंति ॥१॥ [ बृ.क.भा./९७८ ] मगदंतिअपुष्फाई, उदगच्छूढाइँ जाम न धरिति ।
उप्पलपउमाइ पुणो, उदए छूढा चिरं हुँति ॥२॥ [ बृ.क.भा./९७९ ] उत्पलानि पद्मानि च उदकयोनिकत्वाद् उष्णो -आतपे दत्तानि ‘यामं' प्रहरमात्रं कालं 'न ध्रियन्ते' नावतिष्ठन्ते, किन्तु प्रहरादर्वागेवाचित्तीभवन्ति । मुद्गरकाणि -मगदन्ति
१. मुद्रिका-L.P.C. प्रवचनसारोद्धारवृत्तौ च [प० २३२] । द्राक्षापर्याये तु मृट्ठीका दृश्यते न मुद्रिका, अभिधानचिन्तामणावपि-'द्राक्षा तु गोस्तनी मृद्वीका हारहूरा च' [४/२२१-२] । २. "मुद्रिकादयः-L.P.C. श्राद्धविधिवृत्तौ च प० ४० ॥ ३. पिष्टादि L.P.C. । इति श्राद्धविधिवृत्तौ प० ४० ॥ ४. किन्तु-मु० C. नास्ति । P.L. प्रत्योः श्राद्धविधिवृत्तावपि [प० ४०B]-'किन्तु'-अस्ति ।
D:\new/d-1.pm53rd proof