________________
१३२]
[धर्मसंग्रहः-द्वितीयोऽधिकारः जीवितविनाश: १६। तथा सन्धानं चानन्तकायिकं चेति द्वन्द्वः, अत्र सन्धानं निम्बुकबिल्वकादीनाम् अनेकसंसक्तिनिमित्तत्वाद् वयँ, सन्धानस्य च व्यवहारवृत्त्या दिनत्रयात् परतोऽभक्ष्यत्वमाचक्षते, योगशास्त्रवृत्तावपि -"सन्धानमाम्रफलादीनां यदि संसक्तं भवेत् तदा जिनधर्मपरायणः कृपालुत्वात् त्यजेत्"[३/७२, प० ४६७] इति १७।
अनन्ताः कायिका जीवा यत्र तत् अनन्तकायिकम् अनन्तजन्तुसन्ताननिपातननिमित्तत्वात् वय॑म् । यतः - "नृभ्यो नैरयिकाः सुराश्च निखिलाः पञ्चाक्षतिर्यग्गणो, द्वयक्षाद्या ज्वलनो यथोत्तरममी सङ्ख्यातिगा भाषिताः । तेभ्यो भूजलवायवः समधिकाः प्रोक्ता यथानुक्रम, सर्वेभ्यः शिवगा अनन्तगुणितास्तेभ्योऽप्यनन्तांशगाः" ॥१॥[ ]
तानि आर्यदेशप्रसिद्धानि द्वात्रिंशत् । तदाहुः - "सव्वा य कंदजाई १ सूरणकंदो अ वज्जकंदो २ अ । अल्लहलिद्दा य ३ तहा, अल्लं ४ तह अल्लकच्चूरो ५ ॥१॥ सत्तावरी ६ विराली ७, कुँआरि ८ तह थोहरी ९ गलोई अ १० । लसुणं ११ वंसकरिल्ला १२, गज्जर १३ लूणो अ १४ तह लोढा १५ ॥२॥ गिरिकण्णि १६ किसलिपत्ता १७, खरिंसुआ १८ थेग १९ अल्लमुत्था य २० । तह लूणरुक्खछल्ली २१, खिल्लहडो २२ अमयवल्ली अ २३ ॥३॥ मूला २४ तह भूमिरुहा २५, विरुआ २६ तह ढक्कवत्थुलो पढमो २७ । सूअरवल्लो अ २८ तहा, पल्लंको २९ कोमलंबिलिआ ३० ॥४॥ आलू ३१ तह पिंडालू ३२, हवंति एए अणंतनामेणं । अन्नमणंतं नेअं, लक्खणजुत्तीइ समयाओ" ॥५॥
[सम्बोधप्र.श्रा. ९०-९४/प्र.सा. २३६-२४०] व्याख्या -सर्वैव कन्दजातिरनन्तकायिका इति सम्बन्धः, कन्दो नाम भूमध्यगो वृक्षावयवः, ते चात्र कन्दा अशुष्का एव ग्राह्याः, शुष्काणां तु निर्जीवत्वादनन्तकायिकत्वं
१. किसलपत्ता-इति सम्बोधप्रकरणे प्रवचनसारोद्धारे च ॥ २. खिलुहडो-L.P. । खिल्लुहडोइति सम्बोधप्रकरणे । खेल्लुड्डो-इति प्रवचनसारोद्धारे । ३. ढक्क(ढंक)वत्थूलो-मु० । ढक्कवत्थुलोL.P.C. प्रवचनसारोद्धारेऽपि । टक्कवत्थुलो-इति श्राद्धप्रतिक्रमणवृत्तौ प० ११९ । ढंकवत्थुलो-इति सम्बोधप्रकरणे ॥ ४. तुला-प्रवचनसारोद्धारवृत्तिः प० १५० ॥
D:\new/d-1.pm53rd proof