________________
२२ अभक्ष्यस्वरूपम्-श्लो० ३२-३४॥]
[१३३ न सम्भवति, श्रीहेमसूरिरप्येवमेव -"आर्द्रः कन्दः समग्रोऽपि" [ योगशास्त्रे ३/४४] "आर्टोऽशुष्कः कन्दः,शुष्कस्य तु निर्जीवत्वादनन्तकायत्वं न सम्भवतीतियोगशास्त्रसूत्रवृत्त्योराह" [यो.शा.वृ.३/४४] ____ अथ तानेव कांश्चित् कन्दान् व्याप्रियमाणत्वान्नामत आह -सूरणकन्दः अर्शोघ्नः कन्दविशेषः १। वज्रकन्दोऽपि कन्दविशेष एव २। आर्द्राऽशुष्का हरिद्रा प्रतीतैव ३। आर्द्रकं शृङ्गबेरम् ४ाआर्द्रकच्चूरस्तिक्तद्रव्यविशेषः प्रतीत एव ५। शतावरी ६। विरालिके वल्लीभेदौ ७। कुमारी मांसलप्रणालाकारपत्रा प्रतीतैव ८। थोहरी स्नुहीतरुः ९। गडूची वल्लीविशेषः प्रतीत एव १०। लशुनः कन्दविशेष: ११॥ वंशकर(रि)ल्लानि कोमलाभिनववंशावयवविशेषाः प्रसिद्धा एव १२। गर्जरकाणि सर्वजनविदितान्येव १३। लवणको वनस्पतिविशेषो, येन दग्धेन सज्जिका निष्पद्यते १४। लोढक: पद्मिनीकन्दः १५। गिरिकणिका वल्लीविशेषः १६। किसलयरूपाणि पत्राणि प्रौढपत्रादर्वाक् बीजस्योच्छूनावस्थालक्षणानि सर्वाण्यप्यनन्तकायिकानि, न तु कानिचिदेव १७। खरिंशकाः कन्दभेदाः १८। थेगोऽपि कन्दविशेष एव १९। आर्द्रा मुस्ता प्रतीता २०। लवणापरपर्यायस्य भ्रमरनाम्नो वृक्षस्य छविस्त्वक् न त्वन्येऽवयवाः २१। खिल्लहडो लोकप्रसिद्धः कन्दः २२। अमृतवल्ली वल्लीविशेष: २३। मूलको लोकप्रतीतः २४। भूमिरुहाणि छत्रकाणि वर्षाकालभावीनि भूमिस्फोटकानीतिप्रसिद्धानि २५। विरूढान्यङ्कुरितानि द्विदलधान्यानि २६। ढङ्कवास्तुलः शाकविशेषः, स च प्रथमोद्गत एवानन्तकायिको न तु छिन्नप्ररूढ: २७। शूकरसंज्ञको वल्लः, स एवानन्तकायिको न तु धान्यवल्लः २८। पल्यङ्क शाकभेदः २९। कोमलाम्लिका अबद्धास्थिका चिञ्चिणिका ३०। आलुक ३१ पिण्डालुको ३२ कन्दभेदौ ।
एते पूर्वोक्ताः पदार्थाः द्वात्रिंशत्सङ्ख्या अनन्तकायनामभिर्भवन्तीत्यर्थः, न चैतावन्त्ये
१. कन्दः-योगशास्त्रवृत्तौ नास्ति ।। २. आर्द्रकच्च(च्चू)र मु० | L.C. प्रत्योः प्रवचनसारोद्धारश्राद्धप्रतिक्रमणवृत्त्योरपि-आर्दकच्चूर' इति ॥ ३. वरालिके-मु० C. I P.L. प्रवचनसारोद्धारवृत्तौवपिविरालिके इति । विरालिके-इति श्राद्धप्रतिक्रमणवृत्तौ प० ११९ ॥ ४. व(वि)शकरलानि-L.P.C. I वंशकरिल्लानि-इति । प्रवचनसारोद्धारवृत्तौ । वंसकरेल्लानि-इति श्राद्धप्रतिक्रमणवृत्तौ ।। ५. कोमलातिनव C. । कोमलानिनव० L. । ६. छत्राकाराणि-इति प्रवचनसारोद्धारवृत्तौ प० १५१ ।। ७. शाकभेदः-मु० C. नास्ति | L.P. प्रत्योः योगशास्त्र[प० ४५३] प्रवचनसारोद्धार[प० १५१]वृत्त्योरपि-शाकभेद:-अस्ति ।। ८. पिण्डाल(लु) कौ-मु० C. I P.L. प्रत्योः प्रवचनसारोद्धारश्राद्धप्रतिक्रमणवृत्त्योरपि-पिण्डालुकौ इति ।।
D:\new/d-1.pm5\3rd proof