SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ २२ अभक्ष्यस्वरूपम् - श्लो० ३२-३४ ॥ ] आयुर्वेदेऽपि - “हृन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः । अतो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि " ॥३॥ [ यो.शा.३/६० ] तस्माद्विवेकिना रात्रौ चतुर्विधोऽप्याहारः परिहार्य:, तदशक्तौ त्वशनं खादिमं च त्याज्यमेव । स्वादिमं पूगीफलाद्यपि दिवा सम्यक् शोधनादियतनयैव गृह्णात्यन्यथा त्रसहिंसादयोऽपि दोषाः । मुख्यवृत्त्या च प्रातः सायं च रात्रिप्रत्यासन्नत्वाद् द्वे द्वे घटिके भोजनं त्यजेद् । यतो योगशास्त्रे - - 44 'अह्नो मुखेऽवसाने च, यो द्वे द्वे घटिके त्यजन् । [ १३१ निशाभोजनदोषज्ञोऽश्नात्यसौ पुण्यभाजनम्" ॥१॥ [ यो.शा.३/६३ ] अत एवागमे सर्वजघन्यं प्रत्याख्यानं मुहूर्त्तप्रमाणं नमस्कारसहितमुच्यते, जातु तत्तत्कार्यव्यग्रत्वादिना तथा न शक्नोति । तदापि सूर्योदयास्तनिर्णयमपेक्षत एवाऽऽतपदर्शनादिना, अन्यथा रात्रिभोजनदोषः । अन्धकारभवनेऽपि व्रीडया प्रदीपाकरणादिना त्रसादिहिंसानियमभङ्गमायामृषावादादयोऽधिकदोषा अपि । यतः - " न करेमि त्ति भणित्ता, तं चेव निसेवए पुणो पावं । पच्चक्खमुसावाई, मायानियडीपसंगो अ ॥१॥ [ उप.मा./५०७ ] पावं काऊण संयं, अप्पाणं सुद्धमेव वाहरड् । दुगुणं करेइ पावं, बीअं बालस्स मंदत्तं" ॥२॥ [ ] १४| तथा 'बहुबीज' इति बहुबीजं च अज्ञातफलं चेति द्वन्द्वः, तत्र बहूनि बीजानि वर्तन्ते यस्मिन् तत् बहुबीजं, पम्पोटकादिकमभ्यन्तरे पुटादिरहितकेवलबीजमयं, तच्च प्रतीबीजं जीवोपमर्द्दसम्भवाद् वर्जनीयं, यच्चाभ्यन्तरपुटादिसहितबीजमयं दाडिमटिण्डुरादि तेन्नाभक्ष (क्ष्य) तया व्यवहरन्ति १५ । अज्ञातं च तत्फलं चेति कर्मधारयः, अज्ञातफलं स्वयं परेण वा यद् न ज्ञातं फलमुपलक्षणत्वात् पत्रं तदभक्ष्यं, निषिद्धफले विषफले वा अज्ञानात् प्रवृत्तिसम्भवात्, अज्ञानतो हि प्रतिषिद्धे फले प्रवर्तमानस्य व्रतभङ्गः, विषमयफले तु १. सं.-L.P.C. । सयं-श्राद्धप्रतिक्रमणवृत्तौ [ प० ११६] ॥ २. भ्यन्तरे पु (प) टादि मु० । भ्यन्तरपुयदि' इति श्राद्धप्रतिक्रमणवृत्तौ [ प० ११८] L.P.C. च ॥ ३. यच्चाभ्यन्तरपटादि मु० C.P. ।। ४. दाडिमटिण्टुरादि - L. । दाडिमटिन्दुरादि - इति श्राद्धप्रतिक्रमणवृत्तौ प० ११८ ॥ ५. तन्नाभक्षतया - L.P.C. । तन्नाभक्ष्यतया - इति श्राद्धप्रतिक्रमणवृत्तौ प० ११८ ॥ ६. विषमफले L.P.C. II D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy