________________
१३०]
[धर्मसंग्रहः-द्वितीयोऽधिकारः __ अपि च –निशाभोजने क्रियमाणे अवश्यं पाकः सम्भवी । तत्र षड्जीवनिकायवधोऽवश्यम्भावी । भाजनधावनादौ च जलगतजन्तुनाशः, जलोज्झनेन भूमिगतकुन्थुपिपीलिकादिजन्तुघातश्च भवति । तत्प्राणिरक्षणकाङ्क्षयापि निशाभोजनं न कर्त्तव्यम् । यदाहुः -
'जीवाण कुंथुमाईण, घायणं भाणधोअणाईसुं ।
एमाइ रयणिभोयणदोसे को साहिउं तरइ ?" ॥[सं.प्र.श्रा./८३]
यद्यपि च सिद्धमोदकादिखजूरद्राक्षादिभक्षणे नास्त्यन्नपाको, न च भाजनधावनादिसम्भवः, तथापि कुन्थुपनकादिधातसम्भवात् तस्यापि त्याग एव युक्तः । यदुक्तं निशीथभाष्ये
"जइ वि हु फासुगदव्वं, कुंथू पणगा तहा वि दुप्पस्सा । पच्चक्खणाणिणोऽवि हु , राईभत्तं परिहरंति ॥१॥[नि.भा./३३९९] जइ वि हु पिवीलिगाई, दीसंति पईवमाईउज्जोए । तह वि खलु अणाइन्नं, मूलवयविराहणाजणणं" ॥२॥[नि.भा./३४०० ] एतत्फलं च - "उलूककाकमार्जारगृध्रशम्बरशूकराः ।
अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात्" ॥१॥ [ यो.शा.३/६७] परेऽपि पठन्ति - "मृते स्वजनमात्रेऽपि, सूतकं जायते किल ।
अस्तं गते दिवानाथे, भोजनं क्रियते कथम् ?॥१॥[] रक्तीभवन्ति तोयानि, अन्नानि पिशितानि च ।
रात्रौ भोजनसक्तस्य, ग्रासे तन्मांसभक्षणम्" ॥२॥[ ] स्कन्दपुराणे रुद्रप्रणीतकपालमोचनस्तोत्रे सूर्यस्तुतिरूपेऽपि - "एकभक्ताशनान्नित्यमग्निहोत्रफलं लभेत् ।
अनस्तभोजनो नित्यं, तीर्थयात्राफलं भजेत्" ॥१॥[स्क.पु.] तथा-"नैवाहुतिर्न च स्नानं, न श्राद्धं देवतार्चनम् ।
दानं वा विहितं रात्रौ, भोजनं तु विशेषतः" ॥२॥ [यो.शा.३/५६]
१. तुला-योगशास्त्रवृत्तिः प० ४५६ ॥ २. जलोज्झने-इति योगशास्त्रवृत्तौ ॥ ३. हणा जणंP.L. I `हणा जेण-इति योगशास्त्रवृत्तौ प० ४५८ ॥ ४. भवेत्-P.L. ॥ ५. लभेत्-मु० । L.P.C. प्रतिषु श्राद्धप्रतिक्रमणवृत्तावपि [प० ११६] भजेत्-इति ।।
D:\new/d-1.pm53rd proof