________________
२२ अभक्ष्यस्वरूपम्-श्लो० ३२-३४॥]
[१२९ मत्वेनाभक्ष्यत्वे जलस्याप्यभक्ष्यत्वापत्तिः, इति चेत् ? सत्यम् , असङ्ख्यजीवमयत्वेऽपि जलमन्तरा निर्वाहाभावान्न तस्य तथोक्ति: १२॥
तथा 'मृज्जातिः' सर्वापि मृत्तिका दर्दुरादिपञ्चेन्द्रियप्राण्युत्पत्तिनिमित्तत्वादिना मरणाद्यनर्थकारित्वात् त्याज्या। जातिग्रहणं खटिकादिसूचकम् , तद्भक्षणस्याऽऽमाश्रयादिदोषजनकत्वात् । मृद्ग्रहणं चोपलक्षणम् , तेन सुधाद्यपि वर्जनीयम् , तद्भक्षकस्यान्त्रशाटाद्यनर्थसम्भवात् । मृद्भक्षणे चासङ्ख्येयपृथिवीकायविराधनाद्यपि । लवणमप्यसङ्ख्यपृथिवीकायात्मकमिति सचित्तं त्याज्यम् , प्रासुकं ग्राह्यम् , प्रासुकत्वं चाग्न्यादिप्रबलशस्त्रयोगेनैव, नान्यथा। तत्र पृथिवीकायजीवानामसङ्ख्येयत्वेनात्यन्तसूक्ष्मत्वात् । तथा च पञ्चमाङ्गे १९ शतकतृतीयोद्देशके निद्दिष्टोऽयमर्थः -
"वज्रमय्यां शिलायां स्वल्पपृथिवीकायस्य वज्रलोष्टकेनैकविंशतिवारान् पेषणे सन्त्येके केचन जीवा ये स्पृष्टा अपि नेति''[भ.श.१९/उ.३] १३।
तथा रात्रौ-नक्तं भोजनं-भुक्तिः रात्रिभोजनम् , तदपि हेयम् , बहुविधजीवसम्पातसम्भवेनैहिक-पारलौकिकानेकदोषदुष्टत्वात् । यदभिहितम् - "मेहं पिवीलिआउ, हणंति वमणं च मच्छिआ कुणइ ।
जूआ जलोदरतं, कोलिअओ कोट्ठरोगं च ॥१॥[सं.प्र.श्रा./८० ] "वालो सरस्स भंगं, कंटो लग्गइ गलंमि दारुं च ।
तालुंमि विंधइ अली, वंजणमझंमि भुज्जंतो" ॥२॥[सं.प्र.श्रा./८१] व्यञ्जनमिह वार्ताकशाकरूपमभिप्रेतं, तद्वन्तं च वृश्चिकाकारमेव स्यादिति वृश्चिकस्यासूक्ष्मस्यापि तन्मध्यपतितस्यालक्ष्यत्वाद्भोज्यता सम्भवतीतिविशेषः । निशीथचूर्णावपि
"गिहकोइलअवयवसम्मिस्सेण भुत्तेण पोट्टे किल गिहकोइला संमुच्छंति"। एवं सर्पादिलाला-मल-मूत्रादिपाताद्यपि । तथा – "मालिंति महिअलं जामिणिसु रयणीअरा य [ स ]मंतेणं ।
तेवि च्छलंति हु फुडं, रयणीए भुंजमाणं तु" ॥१॥[सं.प्र.श्रा./८२ ] १. सत्येके (सन्त्येके) मु० C. । भगवतीसूत्रवृत्तौ L.P. प्रत्योश्च सन्त्येके-इति पाठः ।। २. पिप्पीलिआओ-L.P. ॥ ३. वाला-L.P.C. ॥ ४. तुला-योगशास्त्रवृत्तिः ३/५० प० ४५६ ॥ ५. य (भ)मंतेणं-मु० । समंतेणं-इति सम्बोधप्रकरणे । य मंतेणं-L.P.C. ||
D:\new/d-1.pm53rd proof