________________
१२८]
[धर्मसंग्रहः-द्वितीयोऽधिकारः "हन्ता पलस्य विक्रेता, संस्कर्ता भक्षकस्तथा ।
क्रेताऽनुमन्ता दाता च, घातका एव यन्मनुः" ॥४॥[ यो.शा.३/२०] तथा भक्षकस्यैवान्यपरिहारेण वधकत्वम् । यथा - "ये भक्षयन्त्यन्यपलं, स्वकीयपलपुष्टये ।
त एव घातका यन्न, वधको भक्षकं विना" ॥१॥[यो.शा.३/२३] इति २। मधु च माक्षिकं १ कौत्तिकं २ भ्रामरं ३ चेति त्रिधा । इदमपि बहुप्राणिविनाशसमुद्भवमिति हेयम् । यतः -
"अनेकजन्तुसङ्घातनिघातनसमुद्भवम् ।
जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकम् ?" ॥ [ यो.शा.३/३६ ] इति ३। नवनीतमपि गोमहिष्यजाऽविसम्बन्धेन चतुर्द्धा, तदपि सूक्ष्मजन्तुराशिखानित्वात् त्याज्यमेव । यतः -
तः, सुसूक्ष्मा जन्तुराशयः । यत्र मूर्छन्ति तन्नाऽद्यं, नवनीतं विवेकिभिः " ॥१॥ [यो.शा.३/३४] इति ४। तथा उदुम्बरकेनोपलक्षितं पञ्चकं वट १ पिप्पलो २ दुम्बर ३ प्लक्ष ४ काकोदुम्बरी ५ फललक्षणं उदुम्बरकपञ्चकम् , मशकाकारसूक्ष्मबहुजीवनिचितत्वाद् वर्जनीयम् । यतो योगशास्त्रे
उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम्। पिप्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलम्" ॥१॥[यो.शा.३/४२] लोकेऽपि - "कोऽपि क्वापि कुतोऽपि कस्यचिदहो चेतस्यकस्माज्जनः, केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण क्षणात् । येनास्मिन्नपि पाटिते विघटिते विस्फोटिते त्रोटिते, निष्पिष्टे परिगालिते विदलिते निर्यात्यसौ वा न वा" ॥१॥[ ] ९। तथा 'हिमं' तुहिनं तदप्यसङ्ख्येयाप्कायरूपत्वात् त्याज्यम् १०।
'विषम्' अहिफेनादिमन्त्रोपहतवीर्यमप्युदरान्तर्वतिगण्डोलकादिजीवघातहेतुत्वान्मरणसमये महामोहोत्पादकत्वाच्च हेयम् ११। 'करका' द्रवीभूता आप: असङ्ख्याप्कायिकत्वात् वाः । नन्वेवमसङ्ख्याप्काय
१. L.P.C. | कौन्तिकं-मु० ॥ २. परिगालिते (च गलिते) मु० C. | L.P. प्रत्योः योगशास्त्रवृत्तावपि [३/४२] विदलिते-इति ।। ३. तुला-प्रवचनसारोद्धारवृत्तिः गा० २४५ प० १५३ ।।
D:\new/d-1.pm5\3rd proof