SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ द्वितीयगुणव्रतस्वरूपम् - श्लो० ३१॥ ] T तथा च प्रकृते निपातानामनेकार्थत्वात् उपभोगशब्दः परिभोगार्थस्तत्समभिव्याहारेण च भोगशब्दस्योपभोगे निरूढलक्षणेति न कश्चिद्विरोध इति ध्येयम् । इदं च द्विविधम् - भोजनतः कर्मतश्च । उपभोग- परिभोगयोरासेवाविषययोर्वस्तुविशेषयोस्तदुपार्जनोपायभूतकर्मणां चोपचारादुपभोगादिशब्दवाच्यानां व्रतमुपभोगपरिभोगव्रतमिति व्युत्पत्तेः । तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भवितव्यम्, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेति । अत्रेयं भावना –श्रावकेण हि तावदुत्सर्गतः प्रासुकैषणीयाहारभोजिना भाव्यम् तस्मिन्नसति सचित्तपरिहारः कार्यः, तस्याप्यशक्तौ बहुसावद्यान्मद्याऽऽमिषाऽनन्तकायादीन् वर्जयता प्रत्येक - मिश्र - सचित्तादीनां प्रमाणं कार्यम् । भणितं च - " निरवज्जाहारेणं १, निज्जीवेणं २ परित्तमीसेणं ३ । अत्ताणुसंधणपरा, सुसावगा एरिसा हुंति" ॥२॥ [ सं.प्र.श्रा./७० ] एवमुत्सवादिविशेषं विनाऽत्यन्तचेतोगृद्ध्युन्मादजनापवादादिजनकमत्युद्भटवेषवाहनालङ्कारादिकमपि श्रावको वर्ज्जयेत् । यतः – "अइरोसो अइतोसो, अइहासो दुज्जणेहिं संवासो । अइउब्भडो अ वेसो, पञ्च वि गुरुअं पि लहुअं ति" ॥१॥ [ ] अतिमलिनातिस्थूलह्रस्वसच्छिद्रवस्त्रादिसामान्यवेषपरिधानेऽपि कुचेलत्व-कार्पण्यादिजनापवादोपहसनीयतादि स्याद्, अतः स्ववित्त-वयो ऽवस्था - निवास-स्थानकुलाद्यनुरूपं वेषं कुर्यात् । उचितवेषादावपि प्रमाणनैयत्यं कार्यम् । एवं दन्तकाष्ठाऽभ्यङ्गतैलोद्वर्त्तन-मञ्जन-वस्त्र-विलेपना -ऽऽभरण - पुष्प-फल- धूपा - ऽऽसन-शयनभवनादेः, तथौदन-सूप-स्नेह-शाक - पेया- खण्ड-खाद्याद्यशन-पान - खादिम - स्वादिमादेस्त्यक्तुमशक्यस्य व्यक्त्या प्रमाणं कार्यम्, शेषं च त्याज्यम्, आनन्दादिसुश्रावकवत् । कर्मतोऽपि श्रावण मुख्यतो निरवद्यकर्मप्रवृत्तिमता भवितव्यम्, तदशक्तावप्यत्यन्तसावद्यविवेकिजननिन्द्यक्रयविक्रयादि कर्म वर्जनीयम्, शेषकर्मणामपि प्रमाणं करणीयम् । यतः - 44 [ १२५ 'रंधणखंडणपीसणदलणं पयणं च एवमाईणं । निच्चपरिमाणकरणं, अविरइबंधो जओ गरुओ" ॥१॥ [ सं. प्र.श्रा./ ७१] आवश्यकचूर्णावप्युक्तम् - " इह चेयं सामाचारी - भोअणओ सावगो उस्सग्गेण फासुगं आहारं आहारेज्जा, तस्सासति अफासुगमपि सचित्तवज्जं, तस्स असति अनंत D:\new/d-1.pm5\3rd proof "
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy