________________
१२४]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः न तु साधूनाम्, तेषां तु समितिगुप्तिप्रधानव्रतशालिनां नायं दोष इति न तेषां दिग्विरतिव्रतमित्यवसेयम् । यतो योगशास्त्रवृत्तिगतान्तरश्लोकाः -
“तदेतद्यावज्जीवं वा, सद्व्रतं गृहमेधिनाम् ।
चतुर्मासादिनियमादथवा स्वल्पकालिकम् ॥१॥ [यो.शा.३/३ ] सदा सामायिकस्थानां यतीनां तु यतात्मनाम् । न दिशि क्वचन स्यातां, विरत्यविरती इमे ॥ २॥ [ यो.शा.३/३] चारणानां हि गमनं, यदूर्ध्वं मेरुमूर्द्धनि ।
तिर्यग्रुचकशैले च, नैषां दिग्विरतिस्ततः " ॥३॥ [ यो.शा.३/३] ||३०|| इति प्रतिपादितं प्रथमं गुणव्रतम् । अथ द्वितीयं तदाह - भोगोपभोगयोः सङ्ख्याविधानं यत्स्वशक्तितः । भोगोपभोगमानाख्यं, तद् द्वितीयं गुणव्रतम् ॥३१॥
सकृद्भुज्यत इति भोग:, अन्न- माल्य - ताम्बूल - विलेपनोद्वर्त्तन-स्नान-पानादि । मुहूर्मुहूर्भुज्यत इति उपभोगः वनितावस्त्रा - ऽलङ्कार-गृह- शयना - ऽऽसन - वाहनादि । यतः - " सइ भुज्जइत्ति भोगो, सो पुण आहारपुप्फमाईअ ।
उवभोगो उ पुणो पुण, उवभुज्जइ भवणवणिआइ" ॥१॥ [ ]त्ति | भोगश्चोपभोगश्च भोगोपभोगौ तयोर्भोगोपभोगयोर्यत् ' सङ्ख्याविधानं' परिमाणकरणं भवति, कुत: ? 'स्वशक्तित: ' निजशक्त्यनुसारेण 'तद्' भोगोपभोगमानाख्यं' भोगोपभोगपरिमाणनामकं ‘द्वितीयं' 'गुणव्रतं' ज्ञेयम् । आवश्यके त्वेतद्व्रतस्योपभोगपरिभोगव्रतमितिनामोच्यते । तथा च सूत्रम् -
-
“उवभोगपरिभोगवए दुविहे पण्णत्तो, तंजहा- भोअणतो कम्मओ अ" । [ प्रत्याख्यानावश्यके सू० ७ हारिभद्रीयवृत्तिः प० ८२८ ]त्ति ।
एतद्वृत्तिर्यथा - उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्त्तते, सकृद्भोग उपभोगः, अशनपानादेः, अथवाऽन्तर्भोग उपभोगः आहारादैः, उपशब्दोऽत्रान्तर्वचनः । परिभुज्यते इति परिभोगः परिशब्दोऽसकृद्वृत्तौ वर्त्तते, पुनः पुनर्भोगः परिभोगो वस्त्रादेः, बहिर्भोगो वा परिवसनालङ्कारादेः अत्र परिशब्दो बहिर्वाचक इति । एतद्विषयं व्रतम् उपभोगपरिभोगव्रतम्' । [ तुला आवश्यकहारिभद्रीयवृत्तिः प० ८२८A ]
१. “पानादि, पुनः पुनर्भुज्यत मु० । 'पानादिसुर्भूज्यत - C. । २. ओ - मु० ॥ ३-४. °दि- इति आवश्यकहारिभद्र्यां पाठः । ५. परिशब्दोऽत्रावृत्तौ - इति आवश्यकहारिभद्र्यां पाठः ॥
D:\new/d-1.pm5\3rd proof