SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रथमगुणव्रतस्वरूपम् — श्लो० ३०॥ ] [ १२३ इत्युक्तान्यणुव्रतानि, साम्प्रतमेतेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतान्यभिधीयन्ते । तानि पुनस्त्रीणि भवन्ति, तद्यथा - दिग्विरमणव्रतम् १, उपभोगपरिभोगपरिमाणव्रतम् २, अनर्थदण्डविरमणव्रतं ३ चेति । तत्राद्यगुणव्रतस्वरूपाभिधित्सयाऽऽह - ऊर्ध्वाधस्तिर्यगाशासु, नियमो गमनस्य यः । आद्यं गुणव्रतं प्राहुस्तद्दिग्विरमणाभिधम् ॥३०॥ ऊर्ध्वा दिग् ब्राह्मी, अधो दिग् नागी, तिर्यगाशास्तिर्यग्दिशस्ताश्च पूर्वा १, आग्नेयी २, याम्या ३, नैर्ऋती ४, वारुणी ५ वायव्या ६, कौबेरी ७, ऐशानी ८ चेत्यष्टौ । तत्र सूर्योदयोपलक्षिता पूर्वा, शेषाश्चाग्नेय्याद्यास्तदनुक्रमेण सृष्ट्या द्रष्टव्याः । तासु दिक्षु विषये तासां सम्बन्धिनो वा ‘गमनस्य' गतेर्यो ‘नियमो' नियमनम्, एतावत्सु पूर्वादिविभागेषु मया गमनाद्यनुष्ठेयं न परत इत्येवंस्वरूपः । तत्रोर्ध्वदिशि नियमः - एतावती दिगूर्ध्वं पर्वताद्यारोहणादवगाहनीया न परत इत्येवम्भूतः । ऐवमधोदिशि नियमः, एतावती दिगध इन्द्रकूपाद्यवतारणादवगाहनीया न परत इत्येवम्भूत इति । तथा तिर्यग्दिक्षु नियमः एतावती दिक् पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि न परत इत्येवम्भूत इति भावार्थ: । तत् 'आद्यं' प्रथमम्, गुणायोपकारायाणुव्रतानां व्रतं गुणव्रतप्रतिपत्तिमन्तरेणाणुव्रतानां तथाविधशुद्ध्यभावात् गुणव्रतं 'प्राहुः' ऊचुर्जिना इति शेषः । तत् किं नाम ? इत्याह - ' दिग्विरमणाभिधं' दिग्विरमणमित्यभिधानं यस्य तदिति शब्दार्थः । एतद्व्रतस्वीकारेऽवगृहीतक्षेत्राद्बहिः स्थावरजङ्गमजीवाभयदानलोभाम्भोधिनियन्त्रणादिर्महालाभो भवति । यतः - 'फारफुल्लिंगभासुरअयगोलयसन्निहो इमो निच्चं । अविरयपावो जीवो, दहइ समंता समत्तजिए ॥१॥ [ ] जइ विअ न जाइ सव्वत्थ, कोइ देहेण माम वो एत्थं । अविरइपच्चयबंधो, तहा वि निच्चो भवे तस्स" ॥२॥ [] 44 अन्यत्रापि " तत्तायगोलकप्पो, पमत्तजीवोऽणिवारिअप्पसरो । सव्वत्थ किं न कुज्जा, पावं तक्कारणाणुगओ ?" ॥३॥ [ श्रा.प्र./ २८१ ] गृहस्थो ह्यारम्भपरिग्रहपरत्वाद्यत्र यत्र याति, भुङ्क्ते, शेते, व्यापारं वा कुरुते, तत्र तत्र तप्तायोगोलक इव जीवोपमर्दं करोतीति तेषामेव हिंसादिपापस्थाननिवर्त्तकमेतत्, १. विरमण ३ चेति-मु० C. । विरमणव्रतं इति L.P. ॥ २. इति एव० L. ॥ ३. अविरइअव्वयबंधो - L.P.C.II ४. तुला - योगशास्त्रवृत्ति: ३।२प० ४२६ ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy