________________
१२२]
[धर्मसंग्रहः-द्वितीयोऽधिकारः "सुवण्णरूप्पस्स य पव्वया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहिं किंचि, इच्छा हु आगाससमा अणंतया" ॥१॥ [ उत्त.९/४८] एवं चेच्छाया अनन्तत्वे तदियत्ताकरणं महते गुणाय । यतः -
"जह जह अप्पो लोहो, जह जह अप्पो परिग्गहारंभो ।
तह तह सुहं पवट्टइ, धम्मस्स य होइ संसिद्धी" ॥१॥[सं.प्र.श्रा./६१] तस्मादिच्छाप्रसरं निरुध्य संतोषे यतितव्यम् , सुखस्य संतोषमूलत्वात् । यदाह -
"आरोग्गसारिअं माणुसत्तणं सच्चसारिओ धम्मो ।
विज्जा निच्छयसारा, सुहाइ संतोससाराइं" ॥१॥ [सं.प्र.श्रा./६३] तदेवमेतद्वतस्यात्रापि संतोष-सौख्य-लक्ष्मीस्थैर्य-जनप्रशंसादि फलम् , परत्र तु नराऽमरसमृद्धि-सिद्धयादि । अतिलोभाभिभूततया चैतव्रतस्यास्वीकृतौ विराधनायां वा दारिद्रय-दास्य-दौर्भाग्य-दुर्गत्यादि । यतः -
"महारंभयाए महापरिग्गहाए कुणिमाहारेणं पंचिदिअवहेणं जीवा नरयाउअं अज्जेई"[ ] त्ति। मूर्छावान् हि उत्तरोत्तराशाकदर्थितो दुःखमेवानुभवति । यदाह -
"उक्खणइ खणइ निहणइ, रत्तिं न सुअइ दिआ वि अ ससंको।
लिंपइ ठएह सययं, लंछिअपडिलंछिअं कुणइ" ॥१॥[] परिग्रहित्वमपि मूर्छयैव, मूर्छामन्तरेण धनधान्यादेरपरिग्रहत्वात् । यदाह -
“अपरिग्रह एव भवेद्वस्त्राभरणाद्यलङ्कृतोऽपि पुमान् ।
ममकारविरहितः सति, ममकारे सङ्गवान् नग्नः" ॥१॥[स्त्रीमुक्ति प्र.१३] तथा- "जं पि वत्थं व पायं वा, कंबलं पायपुंछणं ।
तं पि संजमलज्जट्ठा, धरंति परिहरंति अ" ॥१॥ [ द.वै.६/२०] "न सो परिग्गहो वुत्तो * नाणपुत्तेण ताइणा।
मुच्छा परिग्गहो वुत्तो * इइ वुत्तं महेसिणा" ॥२॥ [ द.वै.६/२१] इति । तेन मूर्छानियमनार्थं सर्वमूर्छापरित्यागाशक्तस्यैतत् पञ्चममणुव्रतमुक्तम् ॥२९॥
१. निक्खय' मु० । निक्षय C. || २. महापरिग्गहयाए-मु० ॥ ३. नेरया० मु० ॥ ४. ठवइL.C. | ठवेइ-इति योगशास्त्रवृत्तौ । २।१०६ ॥ ५. * * चिह्नद्वयमध्यवर्ती पाठः नास्ति L.P. || ६. परि L.P. नास्ति ।।
D:\new/d-1.pm5\3rd proof