SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ पञ्चमाणुव्रतस्वरूपम्-श्लो० २९॥] [१२१ स्थावरं त्रिधा, द्विपदं च द्विधा । यथा - "भूमी घरा य तरुगण, तिविहं पुण थावरं मुणेअव्वं । चक्कारबद्ध माणुस दुविहं पुण होइ दुपयं तु" ॥१॥ [ द.वै.नि.२५६, सं.प्र.श्रा.व्र.५८] __भूमिः क्षेत्रम् , गृहाणि प्रासादाः, तरुगणा नालिकेर्याधारामा इति त्रिधा स्थावरम् , चक्रारबद्धं गन्त्र्यादि, मानुषं दासादीति द्विधा द्विपदम् । चतुष्पदं दशधा । यथा - "गावी महिसी उट्टी, अयएलग आस आसतरगा य । घोडग गद्दह हत्थी, चउप्पयं होइ दसहा उ" ॥१॥[ द.वै.नि.२५७, सं.प्र.श्रा.व.५९] एते प्रतीताः, नवरमस्यां वाह्रीकादिदेशोत्पन्ना जात्या, अश्वतरा वेसराः, अजात्या घोटकाः । नानाविधमपि कुप्यमेकमेव । यथा - "नाणाविहोवगरणं, णेगविहं कुप्पलक्खणं होइ। एसो अत्थो भणिओ, छव्विह चउसट्ठिभेओ उ" ॥१॥[ द.वै.नि.२५८, सं.प्र.श्रा.व.६०] चतुःषष्टिभेदोऽप्येष नवविधपरिग्रहेऽन्तर्भवतीति न कोऽपि विरोधः । पुनः कीदृशस्य तस्य ? 'अमितस्य' परिमाणरहितस्य 'परिवर्जनात्' त्यागात् त्यागनिमित्तभूतेनेत्यर्थः । 'इच्छायाः' अभिलाषस्य यत्परिमाणमियत्ता तस्य कृतिः करणम् , तां पञ्चमं 'व्रतम्' अधिकारादणुव्रतं 'जगदुः' ऊचुर्जिना इति सण्टङ्कः । इदमत्र तात्पर्यम् –परिग्रहविरतिर्द्विधा -सर्वतो देशतश्च, तत्र सर्वथा सर्वभावेषु मूर्छात्यागः सर्वतः, तदितरद्देशतः । तत्र श्रावकाणां सर्वतः तत्प्रतिपत्तेरशक्तौ देशतस्तामिच्छापरिमाणरूपां प्रतिपद्यते । यतः सूत्रम् - ___ "अपरिमिअपरिग्गहं समणोवासओ पच्चक्खाइ, इच्छापरिमाणं उवसंपज्जइ, से अ परिग्गहे दुविहे पण्णत्ते, तंजहा -सचित्तपरिग्गहे अचित्तपरिग्गहे अ" [ प्रत्याख्यानावश्यक सू० ५/हारिभद्रीयवृत्तिः प० ८२५] त्ति । ननु गृहे स्वल्पद्रव्येऽपि सति परिग्रहपरिमाणे तु द्रव्यसहस्रलक्षादिप्रतिपत्त्या इच्छावृद्धिसम्भवात् को नाम गुणः इति चेत् ? मैवम् , इच्छावृद्धिस्तु संसारिणां सर्वदा विद्यमानैव । यतो नमिराजर्षिवचनमिन्द्रं प्रति - १. भूमि गिहा-इति सम्बोधप्रकरणे ।। २. पण्णत्ते-मु० । पं0 L.P.C. || D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy