SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १२०] [धर्मसंग्रहः-द्वितीयोऽधिकार: परिगृह्यत इति परिग्रहस्तस्य, कीदृशस्य? 'कृत्स्नस्य' नवविधस्येत्यर्थः, स चायम् - धनं १ धान्यं २ क्षेत्रं ३ वास्तु ४ रूप्यं ५ सुवर्णं ६ कुप्यं ७ द्विपदः ८ चतुष्पद ९ श्चेति अतिचाराधिकारे व्याख्यास्यमानः । श्रीभद्रबाहुस्वामिकृतदशवैकालिकनियुक्तौ तु - गृहिणामर्थपरिग्रहो धान्य १ रत्न २ स्थावर ३ द्विपद ४ चतुष्पद ५ कुप्य ६ भेदात् सामान्येन षड्विधोऽपि तत्प्रभेदाश्चतुःषष्टिविधः प्रोक्तः । तथाहि -धान्यानि चतुर्विंशतिर्यथा – "धन्नाइँ चउव्वीसं, जव १ गोहुम २ सालि ३ वीहि ४ सट्ठी अ५।। कुद्दव ६ अणुआ ७ कंगू ८, रालग ९ तिल १० मुग्ग ११ मासा य १२ ॥१॥ अयसि १३ हरिमंथ १४ तिउडय १५ निप्फाव १६ सिलिंद १७ रायमासा य १८ । इक्खू १९ मसूर २० तुवरी २१, कुलत्थ २२ तह धन्नय २३ कलाया २४" ॥२॥ [ दशवैकालिकनियुक्तिः २५२-३, सम्बोधप्र.श्राद्ध. ५४-५, प्रवचनसारो.१००४-५] एतानि प्रायः प्रसिद्धानि, नवरं षष्टिका शालिभेदः ५, अणवो मिणचवाख्या धान्यभेदा इति हैमव्याश्रयवृत्तौ, यद्वाऽणुका युगन्धरी इत्यपि क्वापि दृश्यते ७, अतसी प्रतीता १३, हरिमन्था कृष्णचनकाः १४, त्रिपुटको मालवकप्रसिद्धो धान्यविशेषः १५, निष्पावा वल्लाः १६, सिलिन्दा मुकुष्टाः १७, राजमाषाश्चपलकाः १८, इखुर्बरट्टिका सम्भाव्यते १९, मसूरतुवरी धान्यद्वयं मालवकादौ प्रसिद्धम् २०-२१, कलापका वृत्तचनकाः २४ रत्नानि चतुर्विंशतिः । यथा - "रयणाइँ चउव्वीसं, सुवण्ण १ तउ २ तंब ३ रयय ४ लोहाई ५ । सीसग ६ हिरण्ण ७ पासाण ८, वइर ९ मणि १० मोत्तिअ ११ पवालं १२ ॥१॥ [सं.प्र.श्रा.व./५६] "संखो १३ तिणिसा १४ ऽगुरु १५ चंदणाणि १६ वत्थाऽमिलाणि १७ कट्ठाइं १८ । नह १९ चम्म २० दंत २१ वाला २२, गंधा २३ दव्वोसहाई २४ च" ॥२॥ [सं.प्र.श्रा.व./५७] प्रसिद्धान्यमूनि, नवरं रजतं रूप्यम् , हिरण्यं रूपकादि, पाषाणा विजातिरत्नानि, मणयो जात्यानि, तिनिसो वृक्षविशेषः, अमिलान्यूर्णावस्त्राणि, काष्ठानि श्रीपर्णादिफलकादीनि, चर्माणि सिंहादीनां, दन्ता गजादीनां, वालाश्चमर्यादीनाम् , द्रव्यौषधानि पिप्पलादीनि । १. "उ-मु० । 'ग-दशवै० नियुक्तौ ॥ २. निप्पाव-मु० । निष्पाव-L.P.C. | दशवैकालिकनिर्युक्तौ प्रवचनसारोद्धारेऽपि-निप्फाव इति ॥ ३. पिष्पलादीनि-L.P.C. || D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy