________________
१२६]
[धर्मसंग्रहः-द्वितीयोऽधिकारः कायबहुबीयगाणि परिहरिअव्वाणि, इमं च अण्णं भोअणओ परिहर-असणे अणंतकायं अल्लग-मूलगाइ मंसं च, पाणे मंसरसगमज्जाइ, खादिमे उदुंबरकाउंबरवडपिप्पलपिलुंखुमादि, सादिमे मधुमादि, अचित्तं च आहारेअव्वं । जदा किर ण होज्ज अचित्तो तो उस्सग्गेण भत्तं पच्चक्खाइं, ण तरइ ताहे अपवाएण सच्चित्तं अणंतकायबहुबीअगवज्जं । कम्मओ वि अकम्मा ण तरइ जीविउं ताहे अच्चंतसावज्जाणि परिहरिज्जंति" [प्रत्याख्यानावश्यकचूर्णौ प० २९५ ] त्ति ।
इत्थं चेदं भोगपभोगव्रतं भोक्तुं योग्येषु परिमाणकरणेन भवति, इतरेषु तु वर्जनेनेति पर्यवासितमिति च ॥३१॥ श्लोकत्रयेण वर्जनीयानाह -
चतुर्विकृतयो निन्द्या, उदुम्बरकपञ्चकम् । हिमं विषं च करका, मृज्जाती रात्रिभोजनम् ॥३२॥ बहुबीजाऽज्ञातफले, सन्धानानन्तकायिके । वृन्ताकं चलितरसं, तुच्छं पुष्पफलादि च ॥३३॥ आमगोरससंपृक्तद्विदलं चेति वर्जयेत् । द्वाविंशतिमभक्ष्याणि, जैनधर्माधिवासितः ॥३४॥ त्रिभिर्विशेषकम् ॥ जैनधर्मेणार्हद्धर्मेणाऽधिवासितो भावितात्मा पुमान् ‘द्वाविंशतिं' द्वाविंशतिसङ्ख्याकानि अभक्ष्याणि' भोक्तुमनर्हाणि वर्जयेत्' त्यजेदिति तृतीयश्लोकान्तेन सम्बन्धः तानेवाह -'चतुर्विकृतय' इतिचतुरवयवा विकृतयश्चतुर्विकृतयः, शाकपार्थिवादित्वात् समासः । कीदृश्यस्ताः ? 'निन्द्याः' सकलशिष्टजननिन्दाविषया मद्य-मांस-मधुनवनीतलक्षणा इत्यर्थः । तद्वर्णानेकजीवमूर्च्छनात् । तथा चाहुः -
"मज्जे महुंमि मंसंमि, नवनीए चउत्थए ।
उप्पज्जति चयंति अ, तव्वण्णा तत्थ जंतुणो" ॥१॥ [सं.प्र.श्रा./७६ ] परेऽपि- "मद्ये मांसे मधुनि च, नवनीते चतुर्थके।
उत्पद्यन्ते विलीयन्ते, सुसूक्ष्मा जन्तुराशयः" ॥१॥[ ] इति । तत्र मद्यं मदिरा, तच्च द्विधा-काष्ठनिष्पन्नं पिष्टनिष्पन्नं चेति । एतच्च बहुदोषाश्रयान्महानर्थहेतुत्वाच्च त्याज्यम् । यदाह -
१. L.P.C. । परिहरिज्जति त्ति-मु० ॥ २. तुला-योगशास्त्रवृत्तिः ३/६ प० ४२९ ॥
D:\new/d-1.pm53rd proof