SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ११८] [धर्मसंग्रहः-द्वितीयोऽधिकारः वर्जनमित्यर्थः । यद्यप्यपरिगृहीता देव्यस्तिरश्च्यश्च काश्चित्संग्रहीतुः परिणेतुश्च कस्यचिदभावाद् वेश्याकल्पा एव भवन्ति, तथापि प्रायः परजातीयभोग्यत्वात् परदारा एव ता इति वर्जनीयाः । 'तत्' स्वदारसन्तोषोऽन्ययोषिद्वर्जनं वा 'श्रमणोपासकानां' श्रावकाणां सम्बन्धि 'चतुर्थाणुव्रतं' 'मतं' प्रतिपादितं जिनवरैरित्यन्वयः । इयमत्र भावना -मैथुनं द्विविधं -सूक्ष्मं स्थूलं च, तत्र कामोदयेन यदिन्द्रियाणामीषद्विकारस्तत् सूक्ष्मम् , मनोवाक्कायैरौदारिकादिस्त्रीणां यः सम्भोगस्तत् स्थूलम् । अथवा मैथुनविरतिरूपं ब्रह्मचर्य द्विधा, सर्वतो देशतश्च । तत्र सर्वथा सर्वस्त्रीणां मनोवाक्कायैः सङ्गत्यागः सर्वतो ब्रह्मचर्यम् , तच्चाष्टादशधा । यतो योगशास्त्रे - "दिव्यौदारिककामानां, कृतानुमतिकारितैः ।। मनोवाक्कायतस्त्यागो, ब्रह्माष्टादशधा मतम्" ॥१॥ [यो.शा.१/२३] इति । तदितरद्देशतः । तत्रोपासकः सर्वतोऽशक्तौ देशतस्तत्स्वदारसंतोषरूपं परदारवर्जनरूपं वा प्रतिपद्यते । तथा च सूत्रम् - "परदारगमणं समणोवासओ पच्चक्खाइ, सदारसंतोसं, वा पडिवज्जइ, से अ परदारगमणे दुविहे पण्णत्ते, ओरालियपरदारगमणे वेउव्विअपरदारगमणे" [ प्रत्याख्यानावश्यके सू० ४ हारिभद्रीयवृत्तिः प० ८२३] त्ति तत्र च परदारगमनप्रत्याख्याता यास्वेव परदारशब्दः प्रवर्त्तते ताभ्य एव निवर्त्तते, न तु साधारणाङ्गनादिभ्यः । स्वदारसन्तुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यः सर्वाभ्य एवेति विवेकः । ___ इदानीं चैतव्रतप्रतिपत्तिवृद्धपरम्परया प्रायो न सामान्यतोऽन्यचतुरणुव्रतवत् द्विविधत्रिविधेन भङ्गेन दृश्यते, किन्तु विशेषतो मानुषमेकविधैकविधेन तैरश्चमेकविधत्रिविधेन दिव्यं च द्विविधत्रिविधेनेति । दारशब्दस्योपलक्षणत्वात् स्त्रियं प्रति स्वपतिव्यतिरिक्तसर्वपुरुषवर्जनमपि द्रष्टव्यम् , (ग्रन्थाग्रम २०००) एतदव्रतं च महाफलाय । यतः - "जो देइ कणयकोडिं, अहवा कारेड कणयजिणभवणं । तस्स न तत्तं पुण्णं, जत्तिअ बंभव्वए धरिए ॥१॥[सं.प्र.गुरु./६९] १. L.P.C. । तच्चाष्टदशधा-मु० ॥ २. तं जहा ओरा०-L.P. || ३. भेदेन-मु० ॥ ४. कणग' L.P. || ५. तत्तिअपुण्णं-मु० ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy