________________
तृतीयाणुव्रतस्वरूपम् - श्लो० २७॥ ]
[ ११७
अत्र स्वाम्यदत्तेनाधिकारः । तच्च द्विविधम् - स्थूलं सूक्ष्मं च । तत्र परिस्थूलविषयं चौरव्यपदेशकारणत्वेन निषिद्धमिति दुष्टाध्यवसायपूर्वकं स्थूलम् । चौर्यबुद्ध्या क्षेत्र - खलादावल्पस्यापि ग्रहणं स्थूलमेवादत्तादानम्, तद्विपरीतं सूक्ष्मम् । स्वामिनमननुज्ञाप्य तृणलेष्ट्वादिग्रहणरूपम् । तत्र श्राद्धस्य सूक्ष्मे यतना कर्त्तव्या, स्थूलात् तु निवृत्तिः । यतः सूत्रम् -
“थूलगादत्तादाणं समणोवासओ पच्चक्खाइ, से अ अदत्तादाणे दुविहे पण्णत्ते, तंजहा – सचित्तादत्तादाणे अचित्तादत्तादाणे अ" [ प्रत्याख्यानावश्यक सू० ३, हारिभद्रीयवृत्तौ प० ८२२ ] त्ति ।
एतद्व्रतस्य च फलं सर्वजनविश्वास - साधुवाद-समृद्धिवृद्धि - स्थैर्यैश्वर्य-स्वर्गादि, यदवादि
"खित्ते खले अरण्णे, दिआ य राओ व सत्थघाए वा ।
अत्थो से न विणस्सइ, अचोरिआए फलं एअं ॥१॥ [ सं . प्र.श्रा.व./३३]
-
गामागरनगराणां, दोणमुहमडंबपट्टणाणं च ।
सुइरं हवंति सामी, अचोरिआए फलं एअं" ॥२॥ [ सं.प्र.श्रा.व्र./३४]
एतद्व्रतानुपादाने मालिन्योत्पादने वा दौर्भाग्यदास्याङ्गच्छेददारिद्र्यादि । उक्तमपि –
44
'इह चेव खरारोहणगरिहा धिक्कार मरणपज्जंतं ।
दुक्खं तक्करपुरिसा, लहंति नरयं परभवंमी ॥१॥ [ सं.प्र.श्री.व्र./३५ ] नरनाओ उव्वट्टा, केवट्टा कुंटमंटबहिरंधा । चोरिक्कवसणनिहया, हुंति नरा भवसहस्सेसुं" ॥२॥
[सं. प्र.श्रा.व./३६ ] इति ॥२७॥
प्रतिपादितं तृतीयमणुव्रतम् । अथ चतुर्थं तदाह - स्वकीयदारसन्तोषो, वज्र्ज्जनं वाऽन्ययोषिताम् । श्रमणोपासकानां तच्चतुर्थाणुव्रतं मतम् ॥२८॥
स्वकीयदाराः स्वकलत्राणि, तैस्तेषु वा सन्तोषस्तन्मात्रनिष्ठा, 'वा' अथवा 'अन्ययोषितां' परकीयकलत्राणां 'वर्जनं' त्यागः, अन्येषामात्मव्यतिरिक्तानां मनुष्याणां देवानां तिरश्चां च योषितः परिणीत-संगृहीतभेदभिन्नानि कलत्राणि तेषां
१. L. P. C. । परिस्थूर मु० ॥ २. च मालि C.P.L. ।।
D:\new/d-1.pm5\3rd proof