________________
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
एतद्व्रतफलं-विश्वास-यशः - स्वार्थसिद्धि-प्रियाऽऽदेयाऽमोघवचनतादि । यथा -
44
'सव्वा उ मंतजोगा, सिज्झती धम्म अत्थकामा य । सच्चेण परिग्गहिआ, रोगा सोगा य नस्संति ॥ १ ॥ [ ] सच्चं जसस्स मूलं, सच्चं विस्सासकारणं परमं । सच्चं सग्गद्दारं, सच्चं सिद्धीइ सोपाणं" ॥२॥ []
११६ ]
एतदग्रहणेऽतिचरणे च वैपरीत्येन फलम् -
"जं जं वच्चइ जाई, अप्पिअवाई तहिं तहिं होइ ।
न सुइ सुहे सुसद्दे, सुणइ असोअव्वए सद्दे ॥१॥ [सं. प्र.श्रा.व./२३]
दुग्गंधो पूइमुहो, अणिट्ठवयणो अ फरुसवयणो अ ।
जलएडमूअमम्मण, अलिअवयणजंपणे दोसा ॥२॥ [सं. प्र.श्रा.व./२४]
इहलोए च्चिअ जीवा, जीहाछेअं वहं च बंधं वा । अयसं धणनासंवा, पावंती अलिअवयणाओ" ॥३॥ [ सं. प्र.श्राव्र./२५ ] इत्यादि ॥ २६ ॥ उक्तं द्वितीयमणुव्रतम् । अथ तृतीयं
परस्वग्रहणाच्चौर्यव्यपदेशनिबन्धनात् ।
या निवृत्तिस्तृतीयं तत्प्रोचे सार्वैरणुव्रतम् ॥२७॥
परस्यान्यस्य स्वं द्रव्यं तस्य ग्रहणमादानं तस्मात् कीदृशात् ? 'चौर्य' इति चौर्यं चोरिका तस्य व्यपदेशो व्यवहारस्तस्य निबन्धनं निमित्तं तस्मात् । येन कृतेनायं चौर इति व्यपदिश्यते इतिभावः । तस्माद् या निवृत्तिर्विरतिः तत् तृतीयमणुव्रतं 'सार्वैः' अर्हद्भिः 'प्रोचे प्रोक्तम् इत्यक्षरार्थः ।
भावार्थस्त्वयम् –अदत्तं चतुर्द्धा । यदाहुः "सामीजीवादत्तं, तित्थयरेणं तहेव य गुरूहिं ।
एअमदत्तसमरूवं, परूविअं आगमधरेहिं" ॥१॥ [सं.प्र.ना.ब्र./२६ ]
—
यद्वस्तु कनकादिकं स्वामिनाऽदत्तं तत्स्वाम्यदत्तम् १। यत्फलादि सचित्तं स्वकीयं भिनत्ति तज्जीवादत्तम्, यतस्तेन फलादिजीवेन न निजप्राणास्तस्य दत्ता: २। गृहस्थेन दत्तमाधाकर्मादिकं तीर्थकराननुज्ञातत्वात् साधोस्तीर्थकरादत्तम् । एवं श्राद्धस्य प्रासुकमनन्तकायाभक्ष्यादि तीर्थकरादत्तम् ३। सर्वदोषमुक्तमपि यद् गुरूननिमन्त्र्य भुज्यते तद् गुर्वदत्तम् ४।
१. दोसो - L.P. C. II
D:\new/d-1.pm5\3rd proof