SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ प्रथमाणुव्रतस्वरूपम्-श्लो० २५॥] [११३ ___ अस्या व्याख्या -प्राणिवधो द्विविधः -स्थूल-सूक्ष्मजीवविषयभेदात् । तत्र –स्थूला द्वीन्द्रियादयः, सूक्ष्माश्चात्रैकेन्द्रियाः पृथिव्यादयः पञ्चापि बादराः, न तु सूक्ष्मनामकर्मोदयवर्तिनः सर्वलोकव्यापिनः, तेषां वधाभावात् , स्वयमायु:क्षयेणैव मरणात् । अत्र च साधूनां द्विविधादपि वधान्निवृत्तत्वाविंशतिविशोपका जीवदया, गृहस्थानां तु स्थूलप्राणिवधान्निवृत्तिर्न तु सूक्ष्मवधात् , पृथ्वी-जलादिषु सततमारम्भप्रवृत्तत्वाद् , इति दशविशोपकरूपमर्द्धं गतम् । स्थूलप्राणिवधोऽपि द्विधा, सङ्कल्पज आरम्भजश्च । तत्र सङ्कल्पान्मारयाम्येनमिति मन:सङ्कल्परूपाद्यो जायते तस्माद् गृही निवृत्तो, न त्वारम्भजात् , कृष्याद्यारम्भे द्वीन्द्रियादिव्यापादनसम्भवाद् , अन्यथा च शरीरकुटुम्बनिर्वाहाद्यभावात् , एवं पुनरर्द्धं गतं जाताः पञ्च विशोपकाः । सङ्कल्पजोऽपि द्विधा, सापराधविषयो निरपराधविषयश्च । तत्र निरपराधविषया निवृत्तिः, सापराधे तु गुरु-लाघवचिन्तनम् , यथा गुरुरपराधो लघुर्वेति । एवं पुनरः गते सार्की द्वौ विशोपको जातौ । निरपराधोऽपि द्विधा, सापेक्षो निरपेक्षश्च । तत्र निरपेक्षान्निवृत्तिर्न तु सापेक्षाद् , निरपराधेऽपि वाह्यमानमहिष-वृष-हयादौ पाठादिप्रमत्तपुत्रादौ च सापेक्षतया वध-बन्धादिकरणात् , ततः पुनर॰ गते सपादो विशोपकः स्थित इति । इत्थं च देशतः प्राणिवधः श्रावकेन प्रत्याख्यातो भवति । प्राणिवधो हि त्रयश्चत्वारिंशदधिकशतद्वयविधः। यत: - "भूजलजलणानिलवणबितिचउपंचिदिएहिं नव जीवा । मणवयणकायगुणिया, हवंति ते सत्तवीस त्ति ॥१॥ [सं.प्र.श्रा.व्रता./८] इक्कासीई ते करणकारणाणुमइताडिआ होइ। ते च्चिअ तिकालगुणिआ, दुन्नि सया हुंति तेआला ॥२॥[सं.प्र.श्रा.व्रता./९] इति । तेषां मध्ये त्रैकालिकिमनोवाक्कायकरणकद्वित्रिचतुष्पञ्चेन्द्रियविषयकहिंसाकरणकारणस्यैव प्रायः प्रत्याख्यानसंभवात् । एतव्रतफलं चैवमाहुः - "जं आरुग्गमुदग्गमप्पडिहयं आणेसरत्तं फुडं, रूवं अप्पडिरूवमुज्जलतरा कित्ती धणं जुवण्णं । दीहं आउ अवंचणो परिअणो पुत्ता सुपुत्तासया, तं सव्वं सचराचरंमि वि जए नूणं दयाए फलं" ॥१॥[सं.प्र.श्रा.व्रता./१२] । एतदनङ्गीकारे च पङ्गता-कुणिता-कुष्ठादिमहारोद-वियोग-शोकापूर्णायुर्दुःखदौर्गत्यादि फलम् । यतः - १. मुज्जलधरा-इति सम्बोधप्रकरणे ॥ २. L.P.C.J. । पुत्ता सुपुण्णासया-मु० । पुत्ता विणीया सया-इति सम्बोधप्रकरणे ॥ D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy