SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ११४] [धर्मसंग्रहः-द्वितीयोऽधिकारः "पाणिवहे वटुंता, भमन्ति भीमासु गब्भवसहीसुं। संसारमंडलगया, नरयतिरिक्खासु जोणीसुं" ॥२॥[सं.प्र.श्रा.व्रता./१०] ॥२५॥ इत्युक्तमहिंसाव्रतं प्रथमम् । अथ द्वितीयमणुव्रतं दर्शयति - द्वितीयं कन्यागोभूम्यलीकानि न्यासनिह्नवः । कूटसाक्ष्यं चेति पञ्चासत्येभ्यो विरतिर्मतम् ॥२६॥ द्वन्द्वान्ते श्रूयमाणालीकशब्दस्य प्रत्येकं संयोजनात् कन्यालीकम् , गवालीकम् , भूम्यलीकं चेति, तानि, तथा 'न्यासनिह्नवः"कूटसाक्ष्यं' चेति ‘पञ्च' पञ्चसङ्ख्याकानि असत्यानि अर्थात् क्लिष्टाशयशतसमुत्थत्वात् स्थूलासत्यानि, तेभ्यो ‘विरतिः' विरमणं 'द्वितीयम्' अधिकारादणुव्रतं 'मतं' जिनैरिति शेषः। तंत्र कन्याविषयमलीकं कन्याऽलीकं -द्वेषादिभिरविषकन्यां विषकन्याम् , विषकन्यामविषकन्यां वा, सुशीलां वा दुःशीलाम् , दुःशीलां , वा सुशीलामित्यादि वदतो भवति । इदं च सर्वस्य कुमारादिद्विपदविषयस्यालीकस्योपलक्षणम् १। गवालीकम् -अल्पक्षीरां बहुक्षीरां बहुक्षीरां वाऽल्पक्षीरामित्यादि वदन्तः, इदमपि सर्वचतुष्पदविषयालीकस्योपलक्षणम् २। भूम्यलीकं-परसत्कामप्यात्मादिसत्कामात्मादिसत्कां वा परसत्काम् , ऊषरं वा क्षेत्रमनूषरम् अनूषरं वोषरमित्यादि वेदतः, इदं चाशेषापदद्रव्यविषयालीकस्योपलक्षणम् । यदाह"कण्णागहणं दुपयाण, सूअगं चउपयाण गोवयणं । अपयाणं दव्वाणं, सव्वाणं भूमिवयणं तु" ॥१॥[सं.प्र.श्रा.व्रता./१८] ननु यद्येवं तर्हि द्विपद-चतुष्पदा-ऽपदग्रहणं सर्वसंग्राहकं कुतो न कृतम् ? सत्यम् , कन्याद्यलीकानां लोकेऽतिगर्हितत्वेन रूढत्वाद्विशेषेण वर्जनार्थमुपादानम् , कन्यालीकादौ च भोगान्तरायद्वेषवृद्ध्यादयो दोषाः स्फुटा एव । यत आवश्यकचूर्णी - "मुसावाए के दोसा ? अकज्जन्ते वा के गुणा ? तत्थ दोसा कण्णगं चेव अकण्णगं भणंतो भोगंतरायदोसा य, दुट्ठा वा आतघातं करेज्ज, कारवेज्जा वा, एवं सेसेसु भाणिअव्वा" [पच्चक्खाणावश्यकसूत्रे हारिभद्र्यां वृत्तौ प० ८२१ ] इत्यादि । तथा न्यस्यते रक्षणायान्यस्मै समर्प्यते इति न्यासः सुवर्णादिस्तस्य निह्नवो १. तुला-योगशास्त्रवृत्तिः २।५५ प० २७६ ॥ २. L.P.C.J. | वदन्(त:)-मु० ३. इदं च शेषपादपाद्यपदद्रव्य' इति योगशास्त्रवृत्तौ प० २७७ ॥ ४. अकधन्ते-मु० L.P.C.J. आवश्यके च अकज्जंते-इति ।। ५. भणंते भोगांतरायदोसा पदुट्ठा वा-इति आवश्यकसूत्रे पाठः ।। D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy