SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ९८] [धर्मसंग्रहः-द्वितीयोऽधिकारः ___ "दुरग्ग त्ति" प्रतिमाद्युत्तरगुणाऽविरतरूपभेदद्वयाधिकाः, एतावन्तश्च द्वादश व्रतान्याश्रित्य प्रोक्ता । पञ्चाणुव्रतान्याश्रित्य तु १६८०६ भवन्ति । तत्राप्युत्तरगुणाऽविरतमीलने १६८०८ भवन्ति । अत्र चैकद्विकादिसंयोगा गुणकाः, षट्षट्त्रिंशदादयो गुण्याः । त्रिंशदादयश्चागतराशयो यन्त्रकादवसेयाः । ___इयमत्र भावना -कश्चित् पञ्चाणुव्रतानि प्रतिपद्यते, तथा किल पञ्चैकसंयोगाः, एकैकस्मिंश्च संयोगे द्विविधत्रिविधादयः षड् भङ्गाः स्युः, तेन षट् पञ्चभिर्गुण्यन्ते जाताः ३०। एतावन्तः पञ्चानां व्रतानामेकैकसंयोगे भङ्गाः, तथा एकैकस्मिन् द्विकसंयोगे ३६ भङ्गास्तथाहि -आद्यव्रतसम्बन्ध्याद्यो भङ्गकोऽवस्थितो मृषावादस्तकान् षड् भङ्गान् लभते । एवमाद्यव्रतसम्बन्धी द्वितीयोऽपि यावत् षष्ठोऽपि भङ्गोऽवस्थित एव मृषावादसत्कान् षड् भङ्गान् लभते, ततश्च षड् षड्भिर्गुणिताः ३६। दश चात्र द्विकसंयोगा: अत ३६ दशगुणिताः ३६०। एतावन्तः पञ्चानां व्रतानां द्विकसंयोगे भङ्गाः, एवं त्रिकसंयोगादिष्वपि भङ्गसङ्ख्याभावना कार्या । पञ्चमदेवकुलिकास्थापना - ३० ३६ ३६० २१६० १२९६ ६४८० |७७७६ | १ | ७७७६ एवं सर्वासामपि देवकुलिकानां निष्पत्तिः स्वयमेवावसेया। इयं च प्ररूपणाऽऽवश्यकनियुक्त्यभिप्रायेण कृता। भगवत्यभिप्रायेण तु नवभङ्गी। साऽपि प्रसङ्गतः प्रदर्श्यते। तथाहि - हिंसां न करोति मनसा १, वाचा २, कायेन ३। मनसा वाचा ४, मनसा कायेन ५, वाचा कायेन ६। मनसावाचा कायेन ७, एते करणेन सप्त भङ्गाः १, एवंकारणेन २, अनुमत्या ३, करणकारणाभ्यां ४, कारणानुमतिभ्यां ५, करणानुमतिभ्यां ६, करणकारणानुमतिभिरपि ७ सप्त । एवं सर्वे मिलिता एकोनपञ्चाशद्भवन्ति ३३३ २२२ १११ एते च त्रिकालविषयत्वात् प्रत्याख्यानस्य कालत्रयेण गुणिताः सप्तचत्वारिंशं ३२१ ३२१ ३२१ शतं भवन्ति । यदाह - "मणवयकाइयजोगे, करणे कारावणे अणुमई अ। इक्कगदुगतिगजोगे, सत्ता सत्तेव गुणवन्ना ॥१॥ [ श्रा.व.भ.प्र./५] १. व्रतानामेकक० मु०॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy