SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अणुव्रतभङ्गस्वरूपम्-श्लो० २४॥] [९७ ___ अत्र च द्विविध-त्रिविधादिना भङ्गनिकुरम्बेण श्रावकार्हपञ्चाणुव्रतादिव्रतसंहतिभङ्गकदेवकुलिकाः सूचिताः । ताश्चैकैकव्रतं प्रत्यभिहितया षड्भङ्ग्या निष्पद्यन्ते । तासु च प्रत्येकं त्रयो राशयो भवन्ति । तद्यथा -आदौ गुण्यराशिर्मध्ये गुणकराशिरन्ते चागतराशिरिति । तत्र पूर्वमेतासामेव देवकुलिकानां षड्भङ्ग्या विवक्षितव्रतभङ्गक-सर्वसङ्ख्यारूपा एवङ्कारराशयश्चैवम् – "एगवए छब्भङ्गा, निद्दिट्ठा सावयाण जे सुत्ते। ते च्चिअ पयवुड्डीए, सत्तगुणा छज्जुआ कमसो" ॥१॥ [श्रावकव्रतभङ्गप्र.१०/प्रवचनसारोद्धारे १३३०] सर्वभङ्गराशिं जनयन्तीति शेषः । कथं पुनः षड्भङ्गाः सप्तभिर्गुण्यन्ते ? इत्याह - पदवृद्ध्या, मृषावादाद्येकैकव्रतवृद्ध्या, एकव्रतभङ्गाशेरवधौ व्यवस्थापितत्वाद् विवक्षितव्रतेभ्य एकेन हीना वारा इत्यर्थः । तथाहि -एकव्रते षड्भङ्गा सप्तभिर्गुणिता जाता द्विचत्वारिंशत्तत्र षट् क्षिप्यन्ते जाता अष्टचत्वारिंशद् , एषाऽपि सप्तभिर्गुण्यते षट् च क्षिप्यन्ते जातं ३४२ । एवं सप्तगुणनषट्प्रक्षेपक्रमेण तावत्कार्यं यावदेकादश्यां वेलायामागतम् १३८४१२८७२०० । एते च षट्अष्टचत्वारिंशदादयो द्वादशाप्यागतराशय उपर्यधोभागेन व्यवस्थाप्यमाना अर्द्धदेवकुलिकाकारां भूमिमावृण्वन्तीति खण्डदेवकुलिकेत्युच्यते । स्थापना (१) । सम्पूर्णदेवकुलिकास्तु प्रतिव्रतमेकैकदेवकुलिकासद्भावेन षड्भङ्ग्यां द्वादश देवकुलिकाः सम्भवन्ति । तत्र द्वादश्यां देवकुलिकायामेकद्विकादिसंयोगा गुणक(ण्य)रूपाश्चैवं ६-३६-२१६-१२९६-७७७६-४६६५६-२७९९३६ १६७९६१६१००७७६९६-६०४६६१७६-३६२७९७०५६-२१७६७८२३३६ । रायस्त्वमी-१२-६६-२२०-४९५-७९२-९२४-७९२-४९५-२२०६६-१२-१ । एतेषां च पूर्वस्य षड्गुणनेऽग्रेतनो गुण्यराशिरायातीत्यानयने बीजम् , एते च षट्षट्त्रिंशदादयो द्वादशापि गुण्यराशयः क्रमशो द्वादश-षट्षष्टिप्रभृतिभिर्गुणकराशिभर्गुणिता आगतराशयः ७२ आदयो भवन्ति। ते देवकुलिकागततृतीयराशितो ज्ञेयाः। स्थापना चाग्रे (२) । अत्राप्युत्तरगणाऽविरतसंयुक्ताः १३८४१२८७२०२ भवन्ति । उत्तरगणाश्चात्र प्रतिमादयोऽभिग्रहविशेषा ज्ञेयाः । यदुक्तम् - "तेरसकोडिसयाई, चुलसीइजुआई बारस य लक्खा । सत्तासीअसहस्सा, दो अ सया तह दुरग्गा य" ॥१॥[ श्रावकव्रतभङ्गप्र.४०] १. तावत् याव P.L. || २. योगा गुणकरूपा L.P. || ३. गुण्यराशय L.P.C. || ४. पूर्वस्य षड्गु मु०॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy