________________
९६]
[धर्मसंग्रहः-द्वितीयोऽधिकार: तथा द्विविधं द्विविधेनेति द्वितीयो भङ्गः । अत्र चोत्तरभङ्गास्त्रयः । तत्र द्विविधं स्थूलहिंसादिकं न करोति न कारयति द्विविधेन मनसा वचसा १, यद्वा मनसा कायेन २, यद्वा वाचा कायेनेति ३ । तत्र यदा मनसा वचसा न करोति न कारयति, तदा मनसाऽभिसन्धिरहित एव वाचाऽपि हिंसादिकमब्रुवन्नेव कायेन दुश्चेष्टितादि असंज्ञिवत् करोति १॥ यदा तु मनसा कायेन न करोति न कारयति, तदा मनसाऽभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरन्नेवानाभोगाद्वा(द्वा वा)चैव हन्मि घातयामि चेति ब्रूते २ । यदा तु वाचा कायेन न करोति न कारयति, तदा मनसैवाभिसन्धिमधिकृत्य करोति कारयति च ३ । अनुमतिस्तु त्रिभिः सर्वत्रैवास्ति । एवं शेषविकल्पा अपि भावनीयाः ।
द्विविधमेकविधेनेति तृतीयः । अत्राप्युत्तरभङ्गास्त्रयः द्विविधं करणं कारणं च, एकविधेन मनसा, यद्वा वचसा, यद्वा कायेन । एकविधं त्रिविधेनेति चतुर्थः । अत्र च द्वौ भनौ, एकविधं करणम् , यद्वा कारणम् , त्रिविधेन मनसा वाचा कायेन । एकविधं द्विविधेनेति पञ्चमः । अत्रोत्तरभेदाः षट् , एकविधं करणं यद्वा कारणं, द्विविधेन मनसा वाचा, यद्वा मनसा कायेन, यद्वा वाचा कायेन । एकविधमेकविधेनेति षष्ठः, अत्रापि प्रतिभङ्गाः षट् , एकविधं करणं यद्वा कारणम् , एकविधेन मनसा यद्वा वाचा यद्वा कायेन । तदेवं मूलभङ्गाः षट् , षण्णामपि च मूलभङ्गानामुत्तरभङ्गाः सर्वसङ्ख्ययैकविंशतिः । तथा चोक्तम् -
"दुविहतिविहा २ २ २ १११ य छ च्चिअ, तेसिं भेआ कमेणिमे हुँति । पढमिक्को दुन्नि तिआ, दुगेग दो छक्क इगवीसं ३ २ १ ३ २ १" ॥१॥
__[श्रावकव्रतभङ्गप्र.९/प्रवचनसारोद्धारे १३२९ ] स्थापना चेयम् –एवं च षड्भिर्भङ्गैः कृताभिग्रह: षड्विधः श्राद्धः, सप्तमश्चोत्तरगुणः -१३ ३ २ ६६ प्रतिपन्नगुणव्रतशिक्षाव्रताद्युत्तरगुणः । अत्र च सामान्येनोत्तरगुणानाश्रित्यैक एव भेदो विवक्षितः, अविरतश्चाष्टमः । __ तथा पञ्चस्वप्यणुव्रतेसु प्रत्येकं षड्भङ्गीसम्भवेन उत्तरगुणाविरतमीलनेन च द्वात्रिंशद्भेदा अपि श्राद्धानां भवन्ति । यदुक्तम् -
"दुविहा विरयाविरया, दुविहतिविहाइण?हा हुँति । वयमेगेगं छ च्चिय, गुणिअं दुगमिलिअ बत्तीसं" ॥१॥
[श्रावकव्रतभङ्गप्र.३/प्रवचनसारोद्धारे १३२३] ति । १. कायेनैव दुश्चेष्टितादिना-इति योगशास्त्रवृत्तौ प० १९२ ।। २. "इ-मु० ॥
D:\new/d-1.pm5\3rd proof