SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ अणुव्रतभङ्गस्वरूपम्-श्लो० २४॥] [९५ प्रतिपादितवन्तः, किमविशेषण विरतिः ? न, इत्याह – 'व्रतभङ्गेन' इत्यादि । केनचित्' द्विविधत्रिविधादीनामन्यतमेन 'व्रतभलेन' व्रतप्रकारेण, बाहुल्येन हि श्रावकाणां द्विविधत्रिविधादयः षडेव भङ्गाः सम्भवन्तीति तदादिभङ्गजालग्रहणमुचितमितिभावः । ते च भङ्गा एवम् -श्राद्धा विरता अविरताश्चेति सामान्येन द्विविधा अपि विशेषतोऽष्टविधा भवन्ति । यत् आवश्यके - "साभिग्गहा य णिरभिग्गहा य ओहेण सावया दुविहा । ते पुण विभज्जमाणा, अट्ठविहा हुँति णायव्वा" ॥१॥[आव.नि./१५५७] साभिग्रहा विरता आनन्दादयः, अनभिग्रहा अविरताः कृष्ण-सत्यकि-श्रेणिकादय इति । अष्टविधास्तु द्विविध-त्रिविधादिभङ्गभेदेन भवन्ति । तथाहि - "दुविह तिविहेण पढमो, दुविहं दुविहेण बीअओ होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं ॥१॥[आव.नि./१५५८] एगविहं दुविहेणं, एगेगविहेण छट्ठओ होइ। उत्तरगुण सत्तमओ, अविरओ चेव अट्ठमओ" ॥२॥[ आव.नि./१५५९] द्विविधं कृतं कारितम् , त्रिविधेन मनसा वचसा कायेन । यथा -स्थूलहिंसादिकं न करोत्यात्मना न कारयत्यन्यैर्मनसा वचसा कायेनेत्यभिग्रहवान् प्रथमः, अस्य चानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात् । तैहिंसादिकरणे तस्यानुमतिप्राप्तेः । अन्यथा परिग्रहाऽपरिग्रहयोरविशेषेण प्रव्रजिताप्रव्रजितयोरभेदापत्तेः । त्रिविध-त्रिविधादयस्तु भङ्गा गृहिणमाश्रित्य भगवत्युक्ता अपि क्वाचित्कत्त्वान्नेहाधिकृताः । बाहुल्येन षड्भिरेव विकल्पैस्तेषां प्रत्याख्यानग्रहणात् । बाहुल्यापेक्षया चास्य सूत्रस्य प्रवृत्तेः । क्वाचित्कत्वं तु तेषां विशेषविषयत्वात् , तथाहि -य: किल प्रविव्रजिषुः पुत्रादिसन्ततिपालनाय प्रतिमाः प्रतिपद्यते, यो वा विशेषं स्वयम्भूरमणादिगतं मत्स्यादिमांसं दन्तिदन्त-चित्रकचर्मादिकं स्थूलहिंसादिकं वा क्वचिदवस्थाविशेषे प्रत्याख्याति, स एव त्रिविधं त्रिविधादिना करोतीत्यल्पविषयत्वान्नोच्यते । १. तुला-आवश्यकहारिभद्रीयवृत्तिः प० ८०५।। २. कारितं च त्रि L.P. || ३. तुला योगशास्त्रवृत्तिः प० १९२ ॥ ४. तैहिँसाकरणे-मु० | L.P.C. योगशास्त्रवृत्तावपि तैर्हिसादिकरणे-इति ॥ ५. तुला-तत्त्वार्थसूत्रस्य सिद्धसेनीयावृत्तिः ७।१४ भा० २ । पृ० ८५ ॥ ६. तुला-योगशास्त्रवृत्तिः प० १९२, प्रवचनसारोद्धार [गा० १३२३]वृत्तिः, श्रावकव्रतभङ्गावचूरिः प० २ तः ॥ ७. 'त-मु० योगशास्त्रवृत्तौ च ॥ D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy