________________
९०]
[धर्मसंग्रहः-द्वितीयोऽधिकारः "जं अब्भसेइ जीवो, गुणं च दोसं च एत्थ जम्ममी।
तं पावइ परलोए, तेण य अब्भासजोएणं" ॥१॥[] तस्मादभ्यासेन तत्परिणामदाढ्ये यथाशक्ति द्वादशव्रतस्वीकारः । तथा सति सर्वाङ्गीणविरतेः संभवाद् , विरतेश्च महाफलत्वात् । अन्येऽपि च नियमाः सम्यक्त्वयुक्तद्वादशान्यतरव्रतसंबद्धा एव देशविरतित्वाभिव्यञ्जकाः । अन्यथा तु प्रत्युत पार्श्वस्थत्वादिभावाविर्भावकाः । यत उपदेशरत्नाकरे
“सम्यक्त्वाणुव्रतादिश्राद्धधर्मरहिता नमस्कारगुणनजिनार्चनवन्दनाद्यभिग्रहभृतः श्रावकाभासाः श्राद्धधर्मस्य पार्श्वस्थाः'' [ उप.र.] इति ॥२१॥
इत्थं च विधिग्रहणस्यैव कर्त्तव्यत्वात् , 'संग्रहेऽस्य प्रवर्त्तते' इत्यत्र धर्मस्य सम्यग् विधिना प्रतिपत्तौ प्रवर्त्तत इत्येव पूर्वं प्रतिज्ञातत्वाच्च तद्ग्रहणविधिमेव दर्शयति -
योगवन्दननिमित्तदिगाकारविशुद्धयः ।
योग्योपचर्येति विधिरणुव्रतमुखग्रहे ॥२३॥ इह विशुद्धिशब्दः प्रत्येकमभिसम्बध्यते, द्वन्द्वान्ते श्रूयमाणत्वात् । ततो योगशुद्धिवन्दनशुद्धिनिमित्तशुद्धिर्दिक्शुद्धिराकारशुद्धिश्चेत्यर्थः । तत्र योगा: कायवाङ्मनोव्यापारलक्षणास्तेषां शुद्धिः सोपयोगान्तरगमननिरवद्यभाषणशुभचिन्तनादिरूपा । वन्दनशुद्धिरस्खलितप्रणिपातादिदण्डकसमुच्चारणाऽसम्भ्रान्तकायोत्सर्गादिकरणलक्षणा । निमित्तशुद्धिस्तत्कालोच्छलितशङ्खपणवादिनिनादश्रवणपूर्णकुम्भभृङ्गारच्छत्रध्वजचामराद्यवलोकनशुभगन्धाघ्राणादिस्वभावा । दिक्शुद्धिः प्राच्युदीचीजिनजिनचैत्याद्यधिष्ठिताशासमाश्रयणस्वरूपा । आकारशुद्धिस्तु राजाभियोगादिप्रत्याख्यानापवादमत्कलीकरणात्मिकेति ।
तथा योग्यानां देव-गुरु-सार्मिक-स्वजन-दीनाऽनाथादीनामुचिता उपचर्या धूप-पुष्प-वस्त्र-विलेपनासनदानादि गौरवात्मिका चेति विधिः । स च कुत्र भवति ? इत्याह –'अणुव्रत' इति अणुव्रतानि मुखे आदौ येषां तानि अणुव्रतमुखानि साधुश्रावकविशेषधर्माचरणानि तेषां ग्रहे प्रतिपत्तौ भवतीति सद्धर्मग्रहणविधिः । विशेषविधिस्तु सामाचारीतोऽवसेयः । तत्पाठश्चायम् -
१. मु० मध्ये-२२-इति, एवमग्रेऽपि अङ्क भेदः वर्तते ॥ २. "पूर्णजम्भ° L.P.C.J. ॥ ३. “स्व मु० नास्ति ।
D:\new/d-1.pm5\3rd proof